भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.49

6.49.1

॥4॥.
-र्व्_4:8।5-
(र्व्_6,49)
स्तुषे । जनम् । सु-व्रतम् । नव्यसीभिः । गीः-भिः । मित्रावरुणा । सुम्न-यन्ता । ते । आ । गमन्तु । ते । इह । श्रुवन्तु । सु-क्षत्रासः । वरुणः । मित्रः । अग्निः

6.49.2

विशः-विशः । ईड्यम् । अध्वरेषु । अदृप्त-क्रतुम् । अरतिम् । युवत्योः । दिवः । शिशुम् । सहसः । शूनुम् । अग्निम् । यज्ञस्य । केतुम् । अरुषम् । यजध्यै

6.49.3

अरुषस्य । दुहितरा । विरूपेइतिवि-रूपे । स्तृ-भिः । अन्या पिपिशे । सूरः । अन्या । मिथः-तुरा । विचरन्ती इतिवि-चरन्ती । पावके इति । मन्म । श्रुतम् । नक्षत । ऋच्यमानेइति

6.49.4

प्र । वायुम् । अच्छ । बृहती । मनीषा । बृहत्-रयिम् । विश्व-वारम् । रथ-प्राम् । द्युतद्-यामा । नि-युतः । पत्यमानः । कविः । कविम् । इयक्षसि । प्रयज्यो
इतिप्र-यज्यो

6.49.5

सः । मे । वपुः । छदयत् । अश्विनोः । यः । रथः । विरुक्मान् । मनसा । युजानः । येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च

6.49.6

॥5॥.
-र्व्_4:8।6-
पर्जन्यवाता । वृषभा । पृथिव्याः । पुरीषाणि । जिन्वतम् । अप्यानि । सत्य-श्रुतः । कवयः । यस्य । गीः-भिः । जगतः । स्थातः । जगत् । आ । कृणुध्वम्

6.49.7

पावीरवी । कन्या । चित्र-आयुः । सरस्वती । वीर-पत्नी । धियम् । धात् । ग्नाभिः । अच्छिद्रम् । शरणम् । स-जोषाः । दुः-आधर्षम् । गृणते । शर्म । यंसत्

6.49.8

पथः-पथः । परि-पतिम् । वचस्या । कामेन । कृतः । अभि । आनट् । अर्कम् । सः । नः । रासत् । शुरुधः । चन्द्र-अग्राः । धियम्-धियम् । सीसधाति । प्र । पूषा

6.49.9

प्रथम-भाजम् । यशसम् । वयः-धाम् । सु-पाणिम् । देवम् । सु-गभस्तिम् । ऋभ्वम् । होता । यक्षत् । यजतम् । पस्त्यानाम् । अग्निः । त्वष्टारम् । सु-हवम् । विभावा

6.49.10

भुवनस्य । पितरम् । गीः-भिः । आभिः । रुद्रम् । दिवा । वर्धय । रुद्रम् । अक्तौ । बृहन्तम् । ऋष्वम् । अजरम् । सु-सुम्नम् । ऋधक् । हुवेम । कविना । इषितासः

6.49.11

॥6॥.
-र्व्_4:8।7-
आ । युवानः । कवयः । यज्ञियासः । मरुतः । गन्त । गृणतः । वरस्याम् । अच् इत्रम् । चित् । हि । जिन्वथ । वृधन्तः । इत्था । नक्षन्तः । नरः । अङ्गिरस्वत्

6.49.12

प्र । वीराय । प्र । तवसे । तुराय । अज । यूथाइव । पशु-रक्षिः । अस्तम् । सः । पिस्पृशति । तन्वि । श्रुतस्य । स्तृ-भिः । न । नाकम् । वचनस्य । विपः

6.49.13

यः । रजांसि । वि-ममे । पार्थिवानि । त्रिः । चित् । विष्णुः । मनवे । बाधिताय । तस्य । ते । शर्मन् । उप-दद्यमाने । राया । मदेम । तन्वा । तना । च

6.49.14

तत् । नः । अहिः । बुध्न्यः । अत्-भिः । अर्कैः । तत् । पर्वतः । तत् । सविता । चनः । धात् । तत् । ओषधीभिः । अभि । राति-साचः । भगः । पुरम्-धिः । जिन्वतु । प्र । राये

6.49.15

नु । नः । रयिम् । रथ्यम् । चर्षणि-प्राम् । पुरु-वीरम् । महः । ऋतस्य । गोपाम् । क्षयम् । दात । अजरम् । येन । जनान् । स्पृधः । अदेवीः । अभि । च । क्रमाम । वि शः । आदेवीः अभि । अश्नवाम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc