भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.4

6.4.1

॥4॥.
-र्व्_4:5।5-
(र्व्_6,4)
यथा । होतः । मनुषः । देव-ताता । यज्ञेभिः । सूनो इति । सहसः । यजासि । एव । नः । अद्य । समना । समानान् । उशन् । अग्ने । उशसः । यक्षि । देवान्

6.4.2

सः । नः । विभावा । चक्षणिः । न । वस्तोः । अग्निः । वन्दारु । वेद्यः । चनः । धात् । विश्व-आयुः । यः । अमृतः । मर्त्येषु । उषः-भुत् । भूत् । अतिथिः । जात-वेदाः

6.4.3

द्यावः । न । यस्य । पनयन्ति । अभ्वम् । भासांसि । वस्ते । सूर्यः । न । शुक्रः । वि । यः । इनोति । अजरः । पावकः । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि

6.4.4

वद्मा । हि । सूनो इति । असि । अद्म-सद्वा । चक्रे । अग्निः । जनुषा । अज्मा । अन्नम् । सः । त्वम् । नः । ऊर्ज-सने । ऊर्जम् । धाः । राजाइव । जेः । अवृके । क्षेषि । अन्तरिति

6.4.5

नि-तिक्ति । यः । वारनम् । अन्नम् । अत्ति । वायुः । न । राष्ट्री । अति । एति । अक्तून् । तुयार्मः । यः । ते । आदिशाम् । अरातीः । अत्यः । न । ह्रुतः । पततः । परि-ह्रुत्

6.4.6

॥5॥.
-र्व्_4:5।6-
आ । सूर्यः । न । भानुमत्-भिः । अर्कैः । अग्ने । ततन्थ । रोदसी इति । वि । भासा । चित्रः । नयत् । परि । तमांसि । अक्तः । शोचिषा । पत्मन् । औशिजः । न । दीयन्

6.4.7

त्वाम् । हि । मन्द्र-तमम् । अर्क-शोकैः । ववृमहे । महि । नः । श्रोषि । अग्ने । इन्द्रम् । न । त्वा । शवसा । देवता । वायुम् । पृणन्ति । राधसा । नृ-तमाः

6.4.8

नु । नः । अग्ने । अवृकेभिः । स्वस्ति । वेषि । रायः । पथि-भिः । पर्षि । अंहः । ता । सूरि-भ्यः । गृणते । रासि । सुम्नम् । मदेम । शत-हिमाः । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc