ऋग्वेदसंहिता, पदपाठ · अध्याय 6.48
॥35॥.
-र्व्_4:8।1-
(र्व्_6,48)
यज्ञायज्ञा । वः । अग्नये । गिरागिरा । च । दक्षसे । प्र-प्र । वयम् । अमृतम् । जात-वेदसम् । प्रियम् । मित्रम् । न । शंसिषम्
ऊर्जः । नपातम् । सः । हिन । अयम् । अस्म-युः । दाशेम । हव्य-दातये । भुवत् । वाजेषु । अविता । भुवत् । वृधः । उत । त्राता । तनूनाम्
वृषा । हि । अग्ने । अजरः । महान् । वि-भासि । अर्चिषा । अजस्रेण । शोचिषा । शोशुचत् । शुचे । सुदीति-भिः । सु । दीदिहि
महः । देवान् । यजसि । यक्षि । आनुषक् । तव । क्रत्वा । उत । दंसना । अर्वाचः । सीम् । कृणुहि । अग्ने । अवसे । रास्व । वाजा । उत । वंस्व
यम् । आपः । अद्रयः । वना । गर्भम् । ऋतस्य । पिप्रति । सहसा । यः । मथ् इतः । जायते । नृ-भिः । पृथिव्याः । अधि । सानवि
॥1॥.
-र्व्_4:8।2-
आ । यः । पप्रौ । भानुना । रोदसी इति । उभे इति । धूमेन । धावते । दिवि । तिरः । तमः । ददृशे । ऊर्म्यासु । आ । श्यावासु । अरुषः । वृषा । आ । श्यावाः । अरुषः । वृषा
बृहत्-भिः । अग्ने । अर्चि-भिः । शुक्रेण । देव । शोचिषा । भरत्-वाजे । सम्-इधानः । यविष्ठ्य । रेवत् । नः । शुक्र । दीदिहि । द्यु-मत् । पावक । दीदिहि
विश्वासाम् । गृह-पतिः । विशाम् । असि । त्वम् । अग्ने । मानुषीणाम् । शतम् । पूः-भिः । यविष्ठ । पाहि । अंहसः । सम्-एद्धारम् । शतम् । हिमाः । स्तोतृ-भ्यः । ये । च । ददति
त्वम् । नः । चित्रः । ऊत्या । वसो इति । राधांसि । चोदय । अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः
पर्षि । तोकम् । तनयम् । पर्तृ-भिः । त्वम् । अदब्धैः । अप्रयुत्व-भिः । अग्ने । हेलांसि । दैव्या । युयोधि । नः । अदेवानि । ह्वरांसि । च
॥2॥.
-र्व्_4:8।3-
आ । सखायः । सबः-दुघाम् । धेनुम् । अजध्वम् । उप । नव्यसा । वचः । सृजध्वम् । अनप-स्फुराम्
या । शर्धाय । मारुताय । स्व-भानवे । श्रवः । अमृत्यु । धुक्षत । या । मृळीके । मरुताम् । तुराणाम् । या । सुम्नैः । एव-यावरी
भरत्-वाजाय । अव । धुक्षत । द्विता । धेनुम् । च । विश्व-दोहसम् । इषम् । च । व् इश्व-भोजसम्
तम् । वः । इन्द्रम् । न । सु-क्रतुम् । वरुणम्-इव । मायिनम् । अर्यमणम् । न । मन्द्रम् । सृप्र-भोजसम् । विष्णुम् । न । स्तुषे । आदिशे
त्वेषम् । शर्धः । न । मारुतम् । तुवि-स्वणि । अनर्वाणम् । पूषणम् । सम् । यथा । शता । सम् । सहस्रा । कारिषत् । चर्षणि-भ्यः । आ । आविः । गूळ्हा । वसु । करत् । सु-वेदा । नः । वसु । करत्
आ । मा । पूषन् । उप । द्रव । शंसिषम् । नु । ते । अपि-कर्णे । आघृणे । अघाः । अर्यः । अरातयः
॥3॥.
-र्व्_4:8।4-
मा । काकम्बीरम् । उत् । वृहः । वनस्पतिम् । अशस्तीः । वि । हि । नीनशः । मा । उत । सूरः । अहरिति । एव । चन । ग्रीवा । आदधते । वेः
दृतेः-इव । ते । अवृकम् । अस्तु । सख्यम् । अच्छिद्रस्य । दधन्-वतः । सु-पूर्णस्य । दधन्-वतः
परः । हि । मर्त्यैः । असि । समः । देवैः । उत । श्रिया । अभि । ख्यः । पूषन् । पृतनासु । नः । त्वम् । अव । नूनम् । यथा । पुरा
वामी । वामस्य । धूतयः । प्र-नीतिः । अस्तु । सूनृता । देवस्य । वा । मरुतः । मर्त्यस्य । वेजानस्य । प्र-यज्यवः
सद्यः । चित् । यस्य । चर्कृतिः । परि । द्याम् । देवः । न । एति । सूर्यः । त्वेषम् । शवः । दधिरे । नाम । यज्ञियम् । मरुतः । वृत्र-हम् । शवः । ज्येष्ठम् । वृत्र-हम् । शवः
सकृत् । ह । द्यौः । अजायत । सकृत् । भूमिः । अजायत । पृश्न्याः । दुग्धम् । सकृत् । पयः । तत् । अन्यः । न । अनु । जायते
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0