भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.47

6.47.1

॥29॥.
-र्व्_4:7।30-
(र्व्_6,47)
स्वादुः । किल । अयम् । मधु-मान् । उत । अयम् । तीव्रः । किल । अयम् । रस-वान् । उत । अयम् । उतो इति । नु । अस्य । पपि-वांसम् । इन्द्रम् । न । कः । चन । सहते । आहवेषु

6.47.2

अयम् । स्वादुः । इह । मदिष्ठः । आस । यस्य । इन्द्रः । वृत्र-हत्ये । ममाद । पुरूणि । यः । च्यौत्ना । शम्बरस्य । वि । नवतिम् । नव । च । देह्यः । हन्

6.47.3

अयम् । मे । पीतः । उत् । इयर्ति । वाचम् । अयम् । मनीषाम् । उशतीम् । अजीगः । अयम् । षट् । उर्वीः । अमिमीत । धीरः । न । याभ्यः । भुवनम् । कत् । चन । आरे

6.47.4

अयम् । सः । यः । वरिमाणम् । पृथिव्याः । वर्ष्माणम् । दिवः । अकृणोत् । अयम् । सः । अयम् । पीयूषम् । तिसृषु । प्रवत्-सु । सोमः । दाधार । उरु । अन्तरिक्षम्

6.47.5

अयम् । विदत् । चित्र-दृशीकम् । अर्णः । शुक्र-सद्मनाम् । उषसाम् । अनीके । अयम् । महान् । महता । स्कम्भनेन । उत् । द्याम् । अस्तभ्नात् । वृषभः । मरुत्वान्

6.47.6

॥30॥.
-र्व्_4:7।31-
धृषत् । पिब । कलशे । सोमम् । इन्द्र । वृत्र-हा । शूर । सम्-अरे । वसूनाम् । माध्यन्दिने । सवने । आ । वृषस्व । रयि-स्थानः । रयिम् । अस्मासु । धेहि

6.47.7

इन्द्र । प्र । नः । पुरएताइव । पश्य । प्र । नः । नय । प्र-तरम् । वस्यः । अच्छ । भव । सु-पारः । अति-पारयः । नः । भव । सु-नीतिः । उत । वाम-नीतिः

6.47.8

उरुम् । नः । लोकम् । अनु । नेषि । विद्वान् । स्वर्-वत् । ज्योतिः । अभयम् । स्वस्ति । ऋष्वा । ते । इन्द्र । स्थविरस्य । बाहू
इति । उप । स्थेयाम । शरणा । बृहन्ता

6.47.9

वरिष्ठे । नः । इन्द्र । वन्धुरे । धाः । वहिष्ठयोः । शत-वन् । अश्वयोः । आ । इषम् । आ । वक्षि । इषाम् । वर्षिष्ठाम् । मा । नः । तारीत् । मघ-वन् । रायः । अर्यः

6.47.10

इन्द्र । मृळ । मह्यम् । जीवातुम् । इच्छ । चोदय । धियम् । अयसः । न । धाराम् । यत् । किम् । च । अहम् । त्वायुः । इदम् । वदामि । तत् । जुषस्व । कृधि । मा । देव-वन्तम्

6.47.11

॥31॥.
-र्व्_4:7।32-
त्रातारम् । इन्द्रम् । अवितारम् । इन्द्रम् । हवे--हवे । सु-हवम् । शूरम् । इन्द्रम् । ह्वयामि । शक्रम् । पुरु-हूतम् । इन्द्रम् । स्वस्ति । नः । मघ-वा । धातु । इन्द्रः

6.47.12

इन्द्रः । सु-त्रामा । स्व-वान् । अवः-भिः । सु-मृळीकः । भवतु । विश्व-वेदाः । बाधताम् । द्वेषः । अभयम् । कृणोतु । सु-वीर्यस्य । पतयः । स्याम

6.47.13

तस्य । वयम् । सु-मतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम । सः । सु-त्रामा । स्व-वान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु

6.47.14

अव । त्वे इति । इन्द्र । प्र-वतः । न । ऊर्मिः । गिरः । ब्रह्माणि । नि-युतः । धवन्ते । उरु । न । राधः । सवना । पुरूणि । अपः । गाः । वज्रिन् । युवसे । सम् । इन्दून्

6.47.15

कः । ईम् । स्तवत् । कः । पृणात् । कः । यजाते । यत् । उग्रम् । इत् । मघ-वा । विश्वहा । अवेत् । पादौ-इव । प्र-हरन् । अन्यम्-अन्यम् । कृणोति । पूर्वम् । अपरम् । शचीभिः

6.47.16

॥32॥.
-र्व्_4:7।33-
शृण्वे । वीरः । उग्रम्-उग्रम् । दम-यन् । अन्यम्-अन्यम् । अति-नेनीयमानः । एधमान-द्विट् । उभयस्य । राजा । चोष्कूयते । विशः । इन्द्रः । मनुषयान्

6.47.17

परा । पूर्वेषाम् । सख्या । वृणक्ति । वि-तर्तुराणः । अपरेभिः । एति । अननु-भूतीः । अव-धून्वानः । पूर्वीः । इन्द्रः । शरदः । तर्तरीति

6.47.18

रूपम्-रूपम् । प्रति-रूपः । बभूव । तत् । अस्य । रूपम् । प्रति-चक्षणाय । इन्द्रः । मायाभिः । पुरु-रूपः । ईयते । युक्ताः । हि । अस्य । हरयः । शता । दश

6.47.19

युजानः । हरिता । रथे । भूरि । त्वष्टा । इह । राजति । कः । विश्वाहा । द्विषतः । पक्षः । आसते । उत । आसीनेषु । सूरिषु

6.47.20

अगव्यूति । क्षेत्रम् । आ । अगन्म । देवाः । उर्वी । सती । भूमिः । अंहूरणा । अभूत् । बृहस्पते । प्र । चिकित्स । गो--इष्टौ । इत्था । सते । जरित्रे । इन्द्र । पन्थाम्

6.47.21

॥33॥.
-र्व्_4:7।34-
दिवे--दिवे । स-दृशीः । अन्यम् । अर्धम् । कृष्णाः । असेधत् । अप । सद्मनः । जाः । अहन् । दासा । वृषभः । वस्नयन्ता । उद-व्रजे । वर्चिनम् । शम्बरम् । च

6.47.22

प्रस्तोकः । इत् । नु । राधसः । ते । इन्द्र । दश । कोशयीः । दश । वाजिनः । अदात् । दिवः-दासात् । अतिथि-ग्वस्य । राधः । शाम्बरम् । वसु । प्रति । अग्रभीष्म

6.47.23

दश । अश्वान् । दश । कोशान् । दश । वस्त्रा । अधि-भोजना । दसो इति । हिरण्य-पिण्डान् । दिवः-दासात् । असानिषम्

6.47.24

दश । रथान् । प्रष्टि-मतः । शतम् । गाः । अथर्व-भ्यः । अश्वथः । पायवे । अदात्

6.47.25

महि । राधः । विश्व-जन्यम् । दधानान् । भरत्-वाजान् । सञ्जर्यः । अभि । अयष्ट

6.47.26

॥34॥.
-र्व्_4:7।35-
वनस्पते । वीळु-अङ्गः । हि । भूयाः । अस्मत्-सखा । प्र-तरणः । सु-वीरः । गोभिः । सम्-नद्धः । असि । वीळयस्व । आस्थाता । ते । जयतु । जेत्वानि

6.47.27

दिवः । पृथिव्याः । परि । ओजः । उत्-भृतम् । वनस्पति-भ्यः । परि । आभृतम् । सहः । अपाम् । ओज्मानम् । परि । गोभिः । आवृतम् । इन्द्रस्य । वज्रम् । हविषा । रथम् । यज

6.47.28

इन्द्रस्य । वज्रः । मरुताम् । अनीकम् । मित्रस्य । गर्भः । वरुणस्य । नाभिः । सः । इमाम् । नः । हव्यद्-आतिम् । जुषाणः । देव । रथ । प्रति । हव्या । गृभाय

6.47.29

उप । श्वासय । पृथिवीम् । उत । द्याम् । पुरु-त्रा । ते । मनुताम् । वि-स्थितम् । जगत् । सः । दुन्दुभे । स-जूः । इन्द्रेण । देवैः । दूरात् । दवीयः । अप । सेध । शत्रून्

6.47.30

आ । क्रन्दय । बलम् । ओजः । नः । आ । धाः । निः । स्तनिहि । दुः-इता । बाधमानः । अप । प्रोथ । दुन्दुभे । दुच्छुनाः । इतः । इन्द्रस्य । मुष्टिः । असि । वीळयस्व

6.47.31

आ । अमूः । अज । प्रति-आवर्तय । इमाः । केतु-मत् । दुन्दुभिः । वावदीति । सम् । अश्व-पर्णाः । चरन्ति । नः । नरः । अस्माकम् । इन्द्र । रथिनः । जयन्तु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc