भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.46

6.46.1

॥26॥.
-र्व्_4:7।27-
(र्व्_6,46)
त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारवः । त्वाम् । वृत्रेषु । इन्द्र । सत्-पतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः

6.46.2

सः । त्वम् । नः । चित्र । वज्र-हस्त । धृष्णु-या । महः । स्तवानः । अद्रि-वः । गाम् । अश्वम् । रथ्यम् । इन्द्र । सम् । किर । सत्रा । वाजम् । न । जिग्युषे

6.46.3

यः । सत्राहा । वि-चर्षणिः । इन्द्रम् । तम् । हूमहे । वयम् । सहस्र-मुष्क । तुवि-नृम्ण । सत्-पते । भव । समत्-सु । नः । वृधे

6.46.4

बाधसे । जनान् । वृषभाइव । मन्युना । घृषौ । मीळ्हे । ऋचीषम । अस्माकम् । बोधि । अविता । महाधने । तनूषु । अप्-सु । सूर्ये

6.46.5

इन्द्र । ज्येष्ठम् । नः । आ । भर । ओजिष्ठम् । पपुरि । श्रवः । येन । इमे इति । चित्र । वज्र-हस्त । रोदसी इति । आ । उभे इति । सुशिप्र । प्राः

6.46.6

॥27॥.
-र्व्_4:7।28-
त्वाम् । उग्रम् । अवसे । चर्षणि-सहम् । राजन् । देवेषु । हूमहे । विश्वा । सु । नः । विथुरा । पिब्दना । वसो इति । अमित्रान् । सु-सहान् । कृधि

6.46.7

यत् । इन्द्र । नाहुषीषु । आ । ओजः । नृम्णम् । च । कृष्टिषु । यत् । वा । पञ्च । क्षितीनाम् । द्युम्नम् । आ । भर । सत्रा । विश्वानि । पैंस्या

6.46.8

यत् । वा । तृक्षौ । मघ-वन् । द्रुह्यौ । आ । जने । यत् । पूरौ । कत् । च । वृष्ण्यम् । अस्मभ्यम् । तत् । रिरीहि । सम् । नृ-सह्ये । अमित्रान् । पृत्-सु । तुर्वणे

6.46.9

इन्द्र । त्रि-धातु । शरणम् । त्रि-वरूथम् । स्वस्ति-मत् । छर्दिः । यच्छ । मघवत्-भ्यः । च । मह्यम् । च । यवय । दिद्युम् । एभ्यः

6.46.10

ये । गव्यता । मनसा । शत्रुम् । आदभुः । अभि-प्रघ्नन्ति । धृष्णु-या । अध । स्म । नः । मघ-वन् । इन्द्र । गिर्वणः । तनू-पाः । अन्तमः । भव

6.46.11

॥28॥.
-र्व्_4:7।29-
अध । स्म । नः । वृधे । भव । इन्द्र । न । अयम् । अव । युधि । यत् । अन्तरिक्षे । पतयन्ति । पर्णिनः । दिद्यवः । तिग्म-मूर्धानः

6.46.12

यत्र । शूरासः । तन्वः । वि-तन्वते । प्रिया । शर्म । पितॄणाम् । अध । स्म । यच्छ । तन्वे । तने । च । छर्धिः । अचित्तम् । यवय । द्वेषः

6.46.13

यत् । इन्द्र । सर्गे । अर्वतः । चोदयासे । महाधने । असमने । अध्वनि । वृज् इने । पथि । श्येनान्-इव । श्रवस्यतः

6.46.14

सिन्धून्-इव । प्रवणे । आशु-या । यतः । यदि । क्लेशम् । अनु । स्वनि । आ । ये । वयः । न । वर्वृतति । आमिषि । गृभीताः । बाह्वोः । गवि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc