ऋग्वेदसंहिता, पदपाठ · अध्याय 6.45
॥20॥.
-र्व्_4:7।21-
(र्व्_6,45)
यः । आ । अनयत् । परावतः । सु-नीती । तुर्वशम् । यदुम् । इन्द्रः । सः । नः । युवा । सखा
अविप्रे । चित् । वयः । दधत् । अनाशुना । चित् । अर्वता । इन्द्रः । जेता । हितम् । धनम्
महीः । अस्य । प्र-नीतयः । पूर्वीः । उत । प्र-शस्तयः । न । अस्य । क्षीयन्ते । ऊतयः
सखायः । ब्रह्म-वाहसे । अर्चत । प्र । च । गायत । सः । हि । नः । प्र-मतिः । मही
त्वम् । एकस्य । वृत्र-हन् । अविता । द्वयोः । असि । उत । ईदृशे । यथा । वयम्
॥21॥.
-र्व्_4:7।22-
नयसि । इत् । ओं इति । अति । द्विषः । कृणोषि । उक्थ-शंसिनः । नृ-भिः । सु-वीरः । उच्यसे
ब्रह्माणम् । ब्रह्म-वाहसम् । गीः-भिः । सखायम् । ऋग्मियम् । गाम् । न । दोहसे । हुवे
यस्य । विश्वानि । हस्तयोः । ऊचुः । वसूनि । नि । द्विता । वीरस्य । पृतनासहः
वि । दृळ्हानि । चित् । अद्रि-वः । जनानाम् । सची-पते । वृह । मायाः । अनानत
तम् । ओं इति । त्वा । सत्य । सोम-पाः । इन्द्र । वाजानाम् । पते । अहूमहि । श्रवस्यवः
॥22॥.
-र्व्_4:7।23-
तम् । ओं इति । त्वा । यः । पुरा । आसिथ । यः । वा । नूनम् । हिते । धने । हव्यः । सः । श्रुध् इ । हवम्
धीभिः । अर्वत्-भिः । अर्वतः । वाजान् । इन्द्र । श्रवाय्यान् । त्वया । जेष्म । हितम् । धनम्
अभूः । ओं इति । वीर । गिर्वणः । महान् । इन्द्र । धने । हिते । भरे । वितन्तसाय्यः
या । ते । ऊतिः । अमित्र-हन् । मक्षुजवः-तमा । असति । तया । नः । हिनुहि । रथम्
सः । रथेन । रथि-तमः । अस्माकेन । अभि-युग्वना । जेषि । जिष्णो इति । हितम् । धनम्
॥23॥.
-र्व्_4:7।24-
यः । एकः । इत् । तम् । ओं इति । स्तुहि । कृष्टीनाम् । वि-चर्षणिः । पतिः । जज्ञे । वृष-क्रतुः
यः । गृणताम् । इत् । आसिथ । आपिः । ऊती । शिवः । सखा । सः । त्वम् । नः । इन्द्र । मृळय
धिष्व । वज्रम् । गभस्त्योः । रक्षः-हत्याय । वज्रि-वः । ससहीष्ठाः । अभि । स्पृधः
प्रत्नम् । रयीणाम् । युजम् । सखायम् । कीरि-चोदनम् । ब्रह्म-वाहः-तमम् । हुवे
सः । हि । विश्वानि । पार्थिवा । एकः । वसूनि । पत्यते । गिर्वणः-तमः । अध्रि-गुः
॥24॥.
-र्व्_4:7।25-
सः । नः । नियुत्-भिः । आ । पृण । कामम् । वाजे--भिः । अश्वि-भिः । गोमत्-भिः । गो--पते । धृषत्
तत् । वः । गाय । सुते । सचा । पुरु-हूताय । सत्वने । शम् । यत् । गवे । न । शाकिने
न । घ । वसुः । नि । यमते । दानम् । वाजस्य । गो--मतः । यत् । सीम् । उप । श्रवत् । गिरः
कुवित्-सस्य । प्र । हि । व्रजम् । गो--मन्तम् । दस्यु-हा । गमत् । शचीभिः । अप । नः । वरत्
इमाः । ओं इति । त्वा । शतक्रतो इतिशत-क्रतो । अभि । प्र । नोनुवुः । गिरः । इन्द्र । वत्सम् । न । मातरः
॥25॥.
-र्व्_4:7।26-
दुः-नशम् । सख्यम् । तव । गौः । असि । वीर । गव्यते । अश्वः । अश्व-यते । भव
सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे । न । स्तोतारम् । निदे । करः
इमाः । ओं इति । त्वा । सुते--सुते । नक्षन्ते । गिर्वणः । गिरः । वत्सम् । गावः । न । धेनवः
पुरु-तमम् । पुरूणाम् । स्तोतॄणाम् । वि-वाचि । वाजेभिः । वाज-यताम्
अस्माकम् । इन्द्र । भूतु । ते । स्तोमः । वाहिष्ठः । अन्तमः । अस्मान् । राये । महे । ह् इनु
अधि । बृबुः । पणीनाम् । वर्षिष्ठे । मूर्धन् । अस्थात् । उरुः । कक्षः । न । गाङ्ग्यः
यस्य । वायोः-इव । द्रवत् । भद्रा । रातिः । सहस्रिणी । सद्यः । दानाय । मंहते
तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः । बृबुम् । सहस्र-दातमम् । सूरिम् । सहस्र-सातमम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0