ऋग्वेदसंहिता, पदपाठ · अध्याय 6.44
॥15॥.
-र्व्_4:7।16-
(र्व्_6,44)
यः । रयि-वः । रयिम्-तमः । यः । द्युम्नैः । द्युम्नवत्-तमः । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापतेमदः
यः । शग्मः । तुवि-शग्म । ते । रायः । दामा । मतीनाम् । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापतेमदः
येन । वृद्धः । न । शवसा । तुरः । न । स्वाभिः । ऊति-भिः । सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधापतेमदः
त्यम् । ओं इति । वः । अप्र-हनम् । गृणीषे । शवसः । पतिम् । इन्द्रम् । विश्व-सहम् । नरम् । मंहिष्ठम् । विश्व-चर्षणिम्
यम् । वर्धयन्ति । इत् । गिरः । पतिम् । तुरस्य । राधसः । तम् । इत् । नु । अस्य । रोदसी इति । देवी इति । शुष्मम् । सपर्यतः
॥16॥.
-र्व्_4:7।17-
तत् । वः । उक्थस्य । बर्हणा । इन्द्राय । उप-स्तृणीषणि । विपः । न । यस्य । ऊतयः । वि । यत् । रोहन्ति । स-क्षितः
अविदत् । दक्षम् । मित्रः । नवीयान् । पपानः । देवेभ्यः । वस्यः । अचैत् । सस-वान् । स्तौलाभिः । धौतरीभिः । उरुष्या । पायुः । अभवत् । सखि-भ्यः
ऋतस्य । पथि । वेधाः । अपायि । श्रिये । मनांसि । देवासः । अक्रन् । दधानः । नाम । महः । वचः-भिः । वपुः । दृशये । वेन्यः । वि । आवर् इत्य् आवः
द्युमत्-तमम् । दक्षम् । धेहि । अस्मे इति । सेध । जनानाम् । पूर्वीः । अरातीः । वर्षीयः । वयः । कृणुहि । शचीभिः । धनस्य । सातौ । अस्मान् । अविड्ढि
इन्द्र । तुभ्यम् । इत् । मघ-वन् । अभूम । वयम् । दात्रे । हरि-वः । मा । वि । वेनः । नकिः । आपिः । ददृशे । मर्त्य-त्रा । किम् । अङ्ग । रध्र-चोदनम् । त्वा । आहुः
॥17॥.
-र्व्_4:7।18-
मा । जस्वने । वृषभ । नः । ररीथाः । मा । ते । रेवतः । सख्ये । रिषाम । पूर्वीः । ते । इन्द्र । निः-सिधः । जनेषु । जहि । असुस्वीन् । प्र । वृह । अपृणतः
उत् । अभ्राणि-इव । स्तनयन् । इयर्ति । इन्द्रः । राधांसि । अश्व्यानि । गव्या । त्वम् । आसि । प्र-दिवः । कारु-धायाः । मा । त्वा । अदामानः । आ । दभन् । मघोनः
अध्वर्यो इति । वीर । प्र । महे । सुतानाम् । इन्द्राय । भर । सः । हि । अस्य । राजा । यः । पूर्व्याभिः । उत । नूतनाभिः । गीः-भिः । ववृधे । गृणताम् । ऋषीणाम्
अस्य । मदे । पुरु । वर्पांसि । विद्वान् । इन्द्रः । वृत्राणि । अप्रति । जघान । तम् । ओं इति । प्र । होषि । मधु-मन्तम् । अस्मै । सोमम् । वीराय । शिप्रिणे । पिबध्यै
पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । हन्ता । वृत्रम् । वज्रेण । मन्दसानः । गन्ता । यज्ञम् । परावतः । चित् । अच्छ । वसुः । धीनाम् । अविता । कारु-धायाः
॥18॥.
-र्व्_4:7।19-
इदम् । त्यत् । पात्रम् । इन्द्र-पानम् । इन्द्रस्य । प्रियम् । अमृतम् । अपायि । मत्सत् । यथा । सौमनसाय । देवम् । वि । अस्मत् । द्वेषः । युयवत् । वि । अंहः
एना । मन्दानः । जहि । शूर । शत्रून् । जामिम् । अजामिम् । मघ-वन् । अमित्रान् । अभि-सेणान् । अभि । आदेदिशानान् । पराचः । इन्द्र । प्र । मृण । जहि । च
आसु । स्म । नः । मघ-वन् । इन्द्र । पृत्-सु । अस्मभ्यम् । महि । वरिवः । सु-गम् । करितिकः । अपाम् । तोकस्य । तनयस्य । जेषे । इन्द्र । सूरीन् । कृणुहि । स्म । नः । अर्धम्
आ । त्वा । हरयः । वृषणः । युजानाः । वृष-रथासः । वृष-रश्मयः । अत्याः । अस्मत्राञ्चः । वृषणः । वज्र-वाहः । वृष्णे । मदाय । सु-युजः । वहन्तु
आ । ते । वृषन् । वृषणः । द्रोणम् । अस्थुः । घृत-प्रुषः । न । ऊर्मयः । मदन्तः । इन्द्र । प्र । तुभ्यम् । वृष-भिः । सुतानाम् । वृष्णे । भरन्ति । वृषभाय । सोमम्
॥19॥.
-र्व्_4:7।20-
वृषा । असि । दिवः । वृषभः । पृथिव्याः । वृषा । सिन्धूनाम् । वृषभः । स्तियानाम् । वृष्णे । ते । इन्दुः । वृषभ । पीपाय । स्वादुः । रसः । मधु-पेयः । वराय
अयम् । देवः । सहसा । जायमानः । इन्द्रेण । युजा । पणिम् । अस्तभायत् । अयम् । स्वस्य । पितुः । आयुधानि । इन्दुः । अमुष्णात् । अशिवस्य । मायाः
अयम् । अकृणोत् । उषसः । सु-पत्नीः । अयम् । सूर्ये । अदधात् । ज्योतिः । अन्तरिति । अयम् । त्रि-धातु । दिवि । रोचनेषु । त्रितेषु । विन्दत् । अमृतम् । नि-गूळ्हम्
अयम् । द्यावापृथिवी इति । वि । स्कभायत् । अयम् । रथम् । अयुनक् । सप्त-रश्मिम् । अयम् । गोषु । शच्या । पक्वम् । अन्तरिति । सोमः । दाधार । दश-यन्त्रम् । उत्सम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0