ऋग्वेदसंहिता, पदपाठ · अध्याय 6.41
॥12॥.
-र्व्_4:7।13-
(र्व्_6,41)
अहेळमानः । उप । याहि । यज्ञम् । तुभ्यम् । पवन्ते । इन्दवः । सुतासः । गावः । न । वाज्रिन् । स्वम् । ओकः । अच्छ । इन्द्र । आ । गहि । प्रथमः । यज्ञियानाम्
या । ते । काकुत् । सु-कृता । या । वरिष्ठा । यया । शश्वत् । पिबसि । मध्वः । ऊर्मिम् । तया । पाहि । प्र । ते । अध्वर्युः । अस्थात् । सम् । ते । वज्रः । वर्तताम् । इन्द्र । गव्युः
एषः । द्रप्सः । वृषभः । विश्व-रूपः । इन्द्राय । वृष्णे । सम् । अकारि । सोमः । एतम् । पिब । हरि-वः । स्थातः । उग्र । यस्य । ईशिषे । प्र-दिवि । यः । ते । अन्नम्
सुतः । सोमः । असुतात् । इन्द्र । वस्यान् । अयम् । श्रेयान् । चिकितुषे । रणाय । एतम् । तितिर्वः । उप । याहि । यज्ञम् । तेन । विश्वाः । तविषीः । आ । पृणस्व
ह्वयामसि । त्वा । आ । इन्द्र । याहि । अर्वाङ् । अरम् । ते । सोमः । तन्वे । भवाति । शतक्रतो इतिशत-क्रतो । मादयस्व । सुतेषु । प्र । अस्मान् । अव । पृतनासु । प्र । विक्षु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0