ऋग्वेदसंहिता, पदपाठ · अध्याय 6.40
॥11॥.
-र्व्_4:7।12-
(र्व्_6,40)
इन्द्र । पिब । तुभ्यम् । सुतः । मदाय । अव । स्य । हरी इति । वि । मुच । सखाया । उत । प्र । गाय । गणे । आ । नि-सद्य । अथ । यज्ञाय । गृणते । वयः । धाः
अस्य । पिब । यस्य । जज्ञनः । न्द्र । मदाय । क्रत्वे । अपिबः । वि-रप्शिन् । तम् । ओं इति । ते । गावः । नरः । आपः । अद्रिः । इन्दुम् । सम् । अह्यन् । पीतये । सम् । अस्मै
सम्-इद्धे । अग्नौ । सुते । इन्द्र । सोमे । आ । त्वा । वहन्तु । हरयः । वहिष्ठाः । त्वायता । मनसा । जोहवीमि । इन्द्र । आ । याहि । सुविताय । महे । नः
आ । याहि । शश्वत् । उशता । ययाथ । इन्द्र । महा । मनसा । सोम-पेयम् । उप । ब्रह्माणि । शृणवः । इमा । नः । अथ । ते । यज्ञः । तन्वे । वयः । धात्
यत् । इन्द्र । दिवि । पार्ये । यत् । ऋधक् । यत् । वा । स्वे । सदने । यत्र । वा । असि । अतः । नः । यज्ञम् । अवसे । नियुत्वान् । स-जोषाः । पाहि । गिर्वणः । मरुत्-भिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0