भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.42

6.42.1

॥13॥.
-र्व्_4:7।14-
(र्व्_6,42)
प्रति । अस्मै । पिपीषते । विश्वानि । विदुषे । भर । अरम्-गमाय । जग्मये । अपश्चात्-दघ्वने । नरे

6.42.2

आ । ईम् । एनम् । प्रति-एतन । सोमेभिः । सोम-पातनम् । अमत्रेभिः । ऋजीषिणम् । इन्द्रम् । सुतेभिः । इन्दु-भिः

6.42.3

यदि । सुतेभिः । इन्दु-भिः । सोमेभिः । प्रति-भूषथ । वेद । विश्वस्य । मेधिरः । धृषत् । तम्-तम् । इत् । आ । ईषते

6.42.4

अस्मै-अस्मै । इत् । अन्धसः । अध्वर्यो इति । प्र । भर । सुतम् । कुवित् । समस्य । जेन्यस्य । शर्धतः । अभि-शस्तेः । अव-स्परत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc