भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.3

6.3.1

॥2॥.
-र्व्_4:5।3-
(र्व्_6,3)
अग्ने । सः । क्षेषत् । ऋत-पाः । ऋते--जाः । उरु । ज्योतिः । नशते । देव-युः । ते । यम् । त्वम् । मित्रेण । वरुणः । स-जोषाः । देव । पासि । त्यजसा । मर्तम् । अंहः

6.3.2

ईजे । यज्ञेभिः । शशमे । शमीभिः । ऋधत्-वाराय । अग्नये । ददाश । एव । चन । तम् । यशसाम् । अजुष्टिः । न । अंहः । मर्तम् । नशते । न । प्र-दृप्तिः

6.3.3

सूरः । न । यस्य । दृशतिः । अरेपाः । भीमा । यत् । एति । शुचतः । ते । आ । धीः । हेषस्वतः । शुरुधः । न । अयम् । अक्तोः । कुत्राअ । चित् । रण्वः । वसतिः । वने--जाः

6.3.4

तिग्मम् । चित् । एम । महि । वर्पः । अस्य । भसत् । अश्वः । न । यमसान । आसा । वि-जेहमानः । परशुः । न । जिह्वाम् । द्रविः । न । द्रवयति । दारु । धक्षत्

6.3.5

सः । इत् । अस्ताइव । प्रति । धात् । असिष्यन् । शिशीत । तेजः । अयसः । न । धाराम् । चित्र-ध्रजतिः । अरतिः । यः । अक्तोः । वेः । न । द्रु-सद्वा । रघुपत्म-जंहाः

6.3.6

॥3॥.
-र्व्_4:5।4-
सः । ईम् । रेभः । न । प्रति । वस्ते । उस्राः । शोचिषा । ररपीति । मित्र्-अमहाः । नक्तम् । यः । ईम् । अरुषः । यः । दिवा । नॄन् । अमर्त्यः । अरुषः । यः । दिवा । नॄन्

6.3.7

दिवः । न । यस्य । विधतः । नवीनोत् । वृषा । रुक्षः । ओषधीषु । नूनोत् । घृणा । न । यः । ध्रजसा । पत्मना । यन् । आ । रोदसी इति । वसुना । दम् । सुपत्नी इतिसु-पत्नी

6.3.8

धायः-भिः । वा । यः । युज्येभिः । अर्कैः । विद्युत् । न । दविद्योत् । स्वेभिः । शुष्मैः । शर्धः । वा । यः । मरुताम् । ततक्ष । ऋभुः । न । त्वेषः । रभसानः । अद्यौत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc