ऋग्वेदसंहिता, पदपाठ · अध्याय 6.37
॥8॥.
-र्व्_4:7।9-
(र्व्_6,37)
अर्वाक् । रथम् । विश्व-वारम् । ते । उग्र । इन्द्र । युक्तासः । हरयः । वहन्तु । कीरिः । चित् । हि । त्वा । हवते । स्वः-वान् । ऋधीमहि । सध-मादः । ते । अद्य
प्रो इति । द्रोणे । हरयः । कर्म । अग्मन् । पुनानासः । ऋज्यन्तः । अभूवन् । इन्द्रः । नः । अस्य । पूर्व्यः । पापीयात् । द्युक्षः । मदस्य । सोम्यस्य । राजा
आसस्राणासः । शवसानम् । अच्छ । इन्द्रम् । सु-चक्रे । रथ्यासः । अश्वाः । अभि । श्रवः । ऋज्यन्तः । वहेयुः । नु । चित् । नु । वायोः । अमृतम् । वि । दस्येत्
वरिष्ठः । अस्य । दक्षिणाम् । इयर्ति । इन्द्रः । मघोनाम् । तुविकूर्मि-तमः । यया । वज्रि-वः । परि-यासि । अंहः । मघा । च । धृष्णो इति । दयसे । वि । सूरीन्
इन्द्रः । वाजस्य । स्थविरस्य । दाता । इन्द्रः । गीः-भिः । वर्धताम् । वृद्ध-महाः । इन्द्रः । वृत्रम् । हनिष्ठः । अस्तु । सत्वा । आ । ता । सूरिः । पृणति । तूतुजानः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0