भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.38

6.38.1

॥9॥.
-र्व्_4:7।10-
(र्व्_6,38)
अपात् । इतः । उत् । ओं इति । नः । चित्र-तमः । महीम् । भर्षत् । द्यु-मतीम् । इन्द्र-हूतिम् । पन्यसीम् । धीतिम् । दैव्यस्य । यामन् । जनस्य । रातिम् । वनते । सु-दानुः

6.38.2

दूरात् । चित् । आ । वसतः । अस्य । कर्णा । घोषात् । इन्द्रस्य । तन्यति । ब्रुवाणः । आ । इयम् । एनम् । देव-हूतिः । ववृत्यात् । मद्र्यक् । इन्द्रम् । इयम् । ऋच्यमाना

6.38.3

तम् । वः । धिया । परमया । पुराजाम् । अजरम् । इन्द्रम् । अभि । अनूषि । अर्कैः । ब्रह्म । च । गिरः । दधिरे । सम् । अस्मिन् । महान् । च । स्तोमः । अधि । वर्धत् । इन्द्रे

6.38.4

वर्धात् । यम् । यज्ञः । उत । सोमः । इन्द्रम् । वर्धात् । ब्रह्म । गिरः । उक्था । च । मन्म । वर्ध । अह । एनम् । उषसः । यामन् । अक्तोः । वर्धान् । मासाः । शरदः । द्यावः । इन्द्रम्

6.38.5

एव । जज्ञानम् । सहसे । असामि । ववृधानम् । राधसे । च । श्रुताय । महाम् । उग्रम् । अवसे । विप्र । नूनम् । आ । विवासेम । वृत्र-तूर्येषु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc