भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.36

6.36.1

॥7॥.
-र्व्_4:7।8-
(र्व्_6,36)
सत्रा । मदासः । तव । विश्व-जन्याः । सत्रा । रायः । अध । ये । पार्थिवासः । सत्रा । वाजानाम् । अभवः । वि-भक्ता । यत् । देवेषु । धारयथाः । असुर्यम्

6.36.2

अनु । प्र । येजे । जनः । ओजः । अस्य । सत्रा । दधिरे । अनु । वीर्याय । स्यूम-गृभे । दुधये । अर्वते । च । क्रतुम् । वृञ्जन्ति । अपि । वृत्र-हत्ये

6.36.3

तम् । सध्रीचीः । ऊतयः । वृष्ण्यानि । पैंस्यानि । नि-युतः । सश्चुः । इन्द्रम् । समुद्रम् । न । सिन्धवः । उक्थ-शुष्माः । उरु-व्यचसम् । गिरः । आ । विशन्ति

6.36.4

सः । रायः । खाम् । उप । सृज । गृणानः । पुरु-चन्द्रस्य । त्वम् । इन्द्र । वस्वः । पतिः । बभूथ । असमः । जनानाम् । एकः । विश्वस्य । भुवनस्य । राजा

6.36.5

सः । तु । श्रुधि । श्रुत्या । यः । दुवः-युः । द्यौः । न । भूम । अभि । रायः । अर्यः । असः । यथा । नः । शवसा । चकानः । युगे--युगे । वयसा । चेकितानः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc