भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.35

6.35.1

॥6॥.
-र्व्_4:7।7-
(र्व्_6,35)
कदा । भुवन् । रथ-क्षयाणि । ब्रह्म । कदा । स्तोत्रे । सहस्र-पोष्यम् । दाः । कदा । स्तोमम् । वासयः । अस्य । राया । कदा । धियः । करसि । वाज-रत्नाः

6.35.2

कर्हि । स्वित् । तत् । इन्द्र । यत् । नृ-भिः । नॄन् । वीरैः । वीरान् । नीळयासे । जय । आजीन् । त्रि-धातु । गाः । अधि । जयासि । गोषु । इन्द्र । द्युम्नम् । स्वः-वत् । धेहि । अस्मे इति

6.35.3

कर्हि । स्वित् । तत् । इन्द्र । यत् । जरित्रे । विश्व-प्सु । ब्रह्म । कृणवः । शविष्ठ । कदा । धियः । न । नि-युतः । युवासे । कदा । गो--मघा । हवनानि । गच्छाः

6.35.4

सः । गो--मघाः । जरित्रे । अश्व-चन्द्राः । वाज-श्रवसः । अधि । धेहि । पृक्षः । पीपिहि । इषः । सु-दुघाम् । इन्द्र । धेनुम् । भरत्-वाजेषु । सु-रुचः । रुरुच्याः

6.35.5

तम् । आ । नूनम् । वृजनम् । अन्यथा । चित् । शूरः । यत् । शक्र । वि । दुरः । गृणीषे । मा । निः । अरम् । शुक्र-दुघस्य । धेनोः । आङ्गिरसान् । ब्रह्मणा । विप्र । जिन्व

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc