ऋग्वेदसंहिता, पदपाठ · अध्याय 6.32
॥3॥.
-र्व्_4:7।4-
(र्व्_6,32)
अपूर्व्या । पुरु-तमानि । अस्मै । महे । वीराय । तवसे । तुराय । विरप्शिने । वज्रिणे । शम्-तमानि । वचांसि । आसा । स्थविराय । तक्षम्
सः । मातरा । सूर्येण । कवीनाम् । अवासयत् । रुजत् । अद्रिम् । गृणानः । सु-आधीभिः । ऋक्व-भिः । वावशानः । उत् । उस्रियाणाम् । असृजत् । नि-दानम्
सः । वह्नि-भिः । ऋक्व-भिः । गोषु । शश्वत् । मितज्ञु-भिः । पुरु-कृत्वा । जिगाय । पुरः । पुरः-हा । सखि-भिः । सखि-यन् । दृळ्हा । रुरोज । कवि-भिः । कविः । सन्
सः । नीव्याभिः । जरितारम् । अच्छ । महः । वाजेभिः । महत्-भिः । च । शुष्मैः । पुरु-वीराभिः । वृषभ । क्षितीनाम् । आ । गिर्वणः । सुविताय । प्र । याहि
सः । सर्गेण । शवसा । तक्तः । अत्यैः । अपः । इन्द्रः । दक्षिणतः । तुराषाट् । इत्था । सृजानाः । अनप-वृत् । अर्थम् । दिवे--दिवे । विविषुः । अप्र-मृष्यम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0