भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.33

6.33.1

॥4॥.
-र्व्_4:7।5-
(र्व्_6,33)
यः । ओजिष्ठः । इन्द्र । तम् । सु । नः । दाः । मदः । वृषन् । सु-अभिष्टिः । दास्वान् । सौवश्व्यम् । यः । वन-वत् । सु-अश्वः । वृत्रा । समत्-सु । ससहत् । अमित्रान्

6.33.2

त्वाम् । हि । इन्द्र । अवसे । विवाचः । हवन्ते । चर्षणयः । शूर-सातौ । त्वम् । विप्रेभिः । वि । पणीन् । अशायः । त्वाऊतः । इत् । सनिता । वाजम् । अर्वा

6.33.3

त्वम् । तान् । इन्द्र । उभयान् । अमित्रान् । दासा । वृत्राणि । आर्या । च । शूर । वधीः । वनाइव । सु-धितेभिः । अत्कैः । आ । पृत्-सु । दर्षि । नृणाम् । नृ-तम

6.33.4

सः । त्वम् । नः । इन्द्र । अकवाभिः । ऊती । सखा । विश्व-आयुः । अविता । वृधे । भूः । स्वः-साता । यत् । ह्वयामसि । त्वा । युध्यन्तः । नेम-धिता । पृत्-सु । शूर

6.33.5

नूनम् । नः । इन्द्र । अपराय । च । स्याः । भव । मृळीकः । उत । नः । अभिष्टौ । इत्था । गृणन्तः । महिनस्य । शर्मन् । दिवि । स्याम । पार्ये । गोस-तमाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc