ऋग्वेदसंहिता, पदपाठ · अध्याय 6.31
॥2॥.
-र्व्_4:7।3-
(र्व्_6,31)
अभूः । एकः । रयि-पते । रयीणाम् । आ । हस्तयोः । अधिथाः । इन्द्र । कृष्टीः । वि । तोके । अप्-सु । तनये । च । सूरे । अवोचन्त । चर्षणयः । विवाचः
त्वत् । भिया । इन्द्र । पार्थिवानि । विश्वा । अच्युता । चित् । च्यवयन्ते । रजांसि । द्यावाक्षामा । पर्वतासः । वनानि । विश्वम् । दृळ्हम् । भयते । अज्मन् । आ । ते
त्वम् । कुत्सेन । अभि । शुष्णम् । इन्द्र । अशुषम् । युध्य । कुयवम् । गविष्टौ । दश । प्र-पित्वे । अध । सूर्यस्य । मुषायः । चक्रम् । अविवेः । रपांसि
त्वम् । शतानि । अव । शम्बरस्य । पुरः । जघन्थ । अप्रतीनि । दस्योः । अशिक्षः । यत्र । शच्या । शची-वः । दिवः-दासाय । सुन्वते । सुत-क्रे । भरत्-वाजाय । गृणते । वसूनि
सः । सत्य-सत्वन् । महते । रणाय । रथम् । आ । तिष्ठ । तुवि-नृम्ण । भीमम् । याहि । प्र-पथिन् । अवसा । उप । मद्रिक् । प्र । च । श्रुत । श्रवय । चर्षणि-भ्यः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0