भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.30

6.30.1

॥1॥.
-र्व्_4:7।2-
(र्व्_6,30)
भूयः । इत् । ववृधे । वीर्याय । एकः । अजुर्यः । दयते । वसूनि । प्र । रिरिचे । द् इवः । इन्द्रः । पृथिव्याः । अर्धम् । इत् । अस्य । प्रति । रोदसी इति । उभे इति

6.30.2

अध । मन्ये । बृहत् । असुर्यम् । अस्य । यानि । दाधार । नकिः । आ । मिनाति । दिवे--दिवे । सूर्यः । दर्शतः । भूत् । वि । सद्मानि । उर्विया । सु-क्रतुः । धात्

6.30.3

अद । चित् । नु । चित् । तत् । अपः । नदीनाम् । यत् । आभ्यः । अरदः । गातुम् । इन्द्र । नि । पर्वताः । अद्म-सदः । न । सेदुः । त्वया । दृळ्हानि । सुक्रतो इतिसु-क्रतो । रजांसि

6.30.4

सत्यम् । इत् । तत् । न । त्वावान् । अन्यः । अस्ति । इन्द्र । देवः । न । मर्त्यः । ज्यायान् । अहन् । अहिम् । परि-शयानम् । अर्णः । अव । असृजः । अपः । अच्छ । समुद्रम्

6.30.5

त्वम् । अपः । वि । दुरः । विषूचीः । इन्द्र । दृळ्हम् । अरुजः । पर्वतस्य । राजा । अभवः । जगतः । चर्षणीनाम् । साकम् । सूर्यम् । जनयन् । द्याम् । उषसम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc