ऋग्वेदसंहिता, पदपाठ · अध्याय 6.29
॥25॥.
-र्व्_4:7।1-
(र्व्_6,29)
इन्द्रम् । वः । नरः । सख्याय । सेपुः । महः । यन्तः । सु-मतये । चकानाः । महः । हि । दाता । वज्र-हस्तः । अस्ति । महाम् । ओं इति । रण्वम् । अवसे । यजध्वम्
आ । यस्मिन् । हस्ते । नर्याः । मिमिक्षुः । आ । रथे । हिरण्यये । रथे--स्थाः । आ । रश्मयः । गभस्त्योः । स्थूरयोः । आ । अध्वन् । अश्वासः । वृषणः । युजानाः
श्रिये । ते । पादा । दुवः । आ । मिमिक्षुः । धृष्णुः । वज्री । शवसा । दक्षिण-वान् । वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नृतो इति । इषिरः । बभूथ
सः । सोमः । आमिश्ल-तमः । सुतः । भूत् । यस्मिन् । पक्तिः । पच्यते । सन्ति । धानाः । इन्द्रम् । नरः । स्तुवन्तः । ब्रह्म-काराः । उक्था । शंसन्तः । देववात-तमाः
न । ते । अन्तः । शवसः । धायि । अस्य । वि । तु । बाबधे । रोदसी इति । महि-त्वा । आ । ता । सूरिः । पृणति । तूतुजानः । यूथाइव । अप्-सु । सम्-ईजमानः । ऊती
एव । इत् । इन्द्रः । सु-हवः । ऋष्वः । अस्तु । ऊती । अनूती । हिरि-शिप्रः । सत्वा । एव । हि । जातः । असमाति-ओजाः । पुरु । च । वृत्रा । हनति । नि । दस्यून्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0