ऋग्वेदसंहिता, पदपाठ · अध्याय 6.2
॥36॥.
-र्व्_4:5।1-
(र्व्_6,2)
त्वम् । हि । क्षैत-वत् । यशः । अग्ने । मित्रः । न । पत्यसे । त्वम् । वि-चर्षणे । श्रवः । वसो इति । पुष्टिम् । न । पुष्यसि
त्वाम् । हि । स्म । चर्षणयः । यज्ञेभिः । गीः-भिः । ईळते । त्वाम् । वाजी । याति । अवृकः । रजः-तूः । विश्व-चर्षणिः
स-जोषः । त्वा । दिवः । नरः । यज्ञस्य । केतुम् । इन्धते । यत् । ह । स्य । मानुषः । जनः । सुम्न-युः । जुह्वे । अध्वरे
ऋधत् । यः । ते । सु-दानवे । धिया । मर्तः । शशमते । ऊती । सः । बृहतः । दिवः । द्विषः । अंहः । न । तरति
सम्-इधा । यः । ते । आहुतिम् । नि-शितिम् । मर्त्यः । नशत् । वयावन्तम् । सः । पुष्यति । क्षयम् । अग्ने । शत-आयुषम्
॥1॥.
-र्व्_4:5।2-
त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आततः । सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे
अध । हि । विक्षु । ईड्यः । असि । प्रियः । नः । अतिथिः । रण्वः । पुरि-इव । जूयर्ः । सूनुः । न । त्रययाय्यः
क्रत्वा । हि । द्रोणे । अज्यसे । अग्ने । वाजी । न । कृत्व्यः । परिज्माइव । स्वधा । गयः । अत्यः । न । ह्वार्यः । शिशुः
त्वम् । त्या । चित् । अच्युता । अग्ने । पशुः । न । यवसे । धाम । ह । यत् । ते । अजर । वना । वृश्चन्ति । शिक्वसः
वेषि । हि । अध्वरि-यताम् । अग्ने । होता । दमे । विशाम् । सम्-ऋधः । विश्पते । कृणु । जुषस्व । हव्यम् । अङ्गिरः
अच्छ । नः । मित्र-महः । देव । देवान् । अग्ने । वोचः । सु-मतिम् । रोदस्योः । वीहि । स्वस्तिम् । सु-क्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुः-इता । तरेम । ता । तरेम । तव । अवसा । तरेम
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0