ऋग्वेदसंहिता, पदपाठ · अध्याय 6.28
॥24॥.
-र्व्_4:6।25-
(र्व्_6,28)
आ । गावः । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गो--स्थे । रणयन्तु । अस्मे इति । प्रजावतीः । पुरु-रूपाः । इह । स्युः । इन्द्राय । पूर्वीः । उषसः । दुहानाः
इन्द्रः । यज्वने । पृणते । च । शिक्षति । उप । इत् । ददाति । न । स्वम् । मुषायति । भूयः-भूयः । रयिम् । इत् । अस्य । वर्धयन् । अभिन्ने । खिल्ये । नि । दधाति । देव-युम्
न । ताः । नशन्ति । न । दभाति । तस्करः । न । आसाम् । आमित्रः । व्यथिः । आ । दधर्षति । देवान् । च । याभिः । यजते । ददाति । च । ज्योक् । इत् । ताभिः । सचते । गो--पतिः । सह
न । ताः । अर्वा । रेणु-ककाटः । अश्नुते । न । संस्कृत-त्रम् । उप । यन्ति । ताः । अभि । उरु-गायम् । अभयम् । तस्य । ताः । अनु । गावः । मर्तस्य । वि । चरन्ति । यज्वनः
गावः । भगः । गावः । इन्द्रः । मे । अच्छान् । गावः । सोमस्य । प्रथमस्य । भक्षः । इमाः । याः । गावः । सः । जनासः । इन्द्रः । इच्छामि । इत् । हृदा । मनसा । चित् । इन्द्रम्
यूयम् । गावः । मेदयथ । कृशम् । चित् । अश्रीरम् । चित् । कृणुथ । सु-प्रतीकम् । भद्रम् । गृहम् । कृणुथ । भद्र-वाचः । बृहत् । वः । वयः । उच्यते । सभासु
प्रजावतीः । सु-यवसम् । रिशन्तीः । शुद्धाः । अपः । सु-प्रपाने । पिबन्तीः । मा । वः । स्तेनः । ईशत । मा । अघ-शंसः । परि । वः । हेतिः । रुद्रस्य । वृज्याः
उप । इदम् । उप-पर्चनम् । आसु । गोषु । उप । पृच्यताम् । उप । ऋषभस्य । रेतसि । उप । इन्द्र । तव । वीर्ये
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0