भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.27

6.27.1

॥22॥.
-र्व्_4:6।23-
(र्व्_6,27)
किम् । अस्य । मदे । किम् । ओं इति । अस्य । पीतौ । इन्द्रः । किम् । अस्य । सख्ये । चकार । रणाः । वा । ये । नि-सदि । कि म् । ते । अस्य । पुरा । विविद्रे । किम् । ओं इति । नूतनासः

6.27.2

सत् । अस्य । मदे । सत् । ओं इति । अस्य । पीतौ । इन्द्रः । सत् । अस्य । सख्ये । चकार । रणाः । वा । ये । नि-सदि । सत् । ते । अस्य । पुरा । विविद्रे । सत् । ओं इति । नूतनासः

6.27.3

नहि । नु । ते । महिमनः । समस्य । न । मघ-वन् । मघवत्-त्वस्य । वि द्म । न । राधसः-राधसः । नूतनस्य । इन्द्र । नकिः । ददृशे । इन्द्रियम् । ते

6.27.4

एतत् । त्यत् । ते । इन्द्रियम् । अचेति । येन । अवधीः । वर-शिखस्य । शेषः । वज्रस्य । यत् । ते । नि-हतस्य । शुष्मात् । स्वनात् । चित् । इन्द्र । परमः । ददार

6.27.5

वधीत् । इन्द्रः । वर-शिखस्य । शेषः । अभि-आवर्तिने । चायमानाय । शिक्षन् । वृचीवतः । यत् । हरियूपीयायाम् । हन् । पूर्वे । अर्धे । भियसा । अपरः । दर्त

6.27.6

॥23॥.
-र्व्_4:6।24-
त्रिंशत्-शतम् । वर्मिणः । इन्द्र । साकम् । यव्यावत्याम् । पुरु-हूत । श्रवस्या । वृचीवन्तः । शरवे । पत्यमानाः । पात्रा । भिन्दानाः । नि-अर्थानि । आयन्

6.27.7

यस्य । गावौ । अरुषा । सुयवस्यू इतिसु-यवस्यू । अन्तः । ओं इति । सु । चरतः । रेरिहाणा । सः । सृञ्जयाय । तुर्वशम् । परा । अदात् । वृचीवतः । दैव-वाताय । शिक्षन्

6.27.8

द्वयान् । अग्ने । रथिनः । विंशतिम् । गाः । वधू-मतः । मघ-वा । मह्यम् । सम्-राट् । अभि-आवर्ती । चायमानः । ददाति । दुः-नाशा । इयम् । दक्षिणा । पार्थवानाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc