भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.24

6.24.1

॥16॥.
-र्व्_4:6।17-
(र्व्_6,24)
वृषा । मदः । इन्द्रे । श्लोकः । उक्था । सचा । सोमेषु । सुत-पाः । ऋजीषी । अर्चत्र्यः । मघ-वा । नृ-भ्यः । उक्थैः । द्युक्षः । राजा । गिराम् । अक्षित-ऊतिः

6.24.2

ततुरिः । वीरः । नर्यः । वि-चेताः । श्रोता । हवम् । गृणतः । उर्वि-ऊतिः । वसुः । शंसः । नराम् । कारु-धायाः । वाजी । स्तुतः । विदथे । दाति । वाजम्

6.24.3

अक्षः । न । चक्र्योः । शूर । बृहन् । प्र । ते । मह्ना । रिरिचे । रोदस्योः । वृक्षस्य । नु । ते । पुरु-हूत । वयाः । वि । ऊतयः । रुरुहुः । इन्द्र पूर्वीः

6.24.4

शची-वतः । ते । पुरु-शाक । शाकाः । गवाम्-इव । स्रुतयः । सम्-चरणीः । वत्सानाम् । न । तन्तयः । ते । इन्द्र । दामन्-वन्तः । अदामानः । सु-दामन्

6.24.5

अन्यत् । अद्य । कर्वरम् । अन्यत् । ओं इति । श्वः । असत् । च । सत् । मुहुः । आ । चक्रिः । इन्द्रः । मित्रः । नः । अत्र । वरुणः । च । पूषा । अर्यः । वशस्य । परि-एता । अस्ति

6.24.6

॥17॥.
-र्व्_4:6।18-
वि । त्वत् । आपः । न । पर्वतस्य । पृष्ठात् । उक्थेभिः । इन्द्र । अनयन्त । यज्ञैः । तम् । त्वा । आभिः । सुस्तुति-भिः । वाजयन्तः । आजिम् । न । जग्मुः । गिर्वाहः । अश्वाः

6.24.7

न । यम् । जरन्ति । शरदः । न । मासाः । न । द्यावः । इन्द्रम् । अव-कर्शयन्ति । वृद्धस्य । चित् । वर्धताम् । अस्य । तनूः । स्तोमेभिः । उक्थैः । च । शस्यमाना

6.24.8

न । वीळवे । नमते । न । स्थिराय । न । शर्धते । दस्यु-जूताय । स्तवान् । अज्राः । इन्द्रस्य । गिरयः । चित् । ऋष्वाः । गम्भीरे । चित् । भवति । गाधम् । अस्मै

6.24.9

गम्भीरेण । नः । उरुणा । अमत्रिन् । प्र । इषः । यन्धि । सुत-पावन् । वाजान् । स्थाः । ओं इति । सु । ऊर्ध्वः । ऊती । अरिषण्यन् । अक्तोः । वि-उष्टौ । परि-तक्म्यायाम्

6.24.10

सचस्व । नायम् । अवसे । अभीके । इतः । वा । तम् । इन्द्र । पाहि । रिषः । अमा । च । एनम् । अरण्ये । पाहि । रिषः । मदेम । शत-हिमाः । सु-वीराः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc