ऋग्वेदसंहिता, पदपाठ · अध्याय 6.23
॥14॥.
-र्व्_4:6।15-
(र्व्_6,23)
सुते । इत् । त्वम् । नि-मिश्लः । इन्द्र । सोमे । स्तोमे । ब्रह्मणि । शस्यमाने । उक्थे । यत् । वा । युक्ताभ्याम् । मघ-वन् । हरि-भ्याम् । बिभ्रत् । वज्रम् । बाह्वोः । इन्द्र । यासि
यत् । वा । दिवि । पार्ये । सुस्विम् । इन्द्र । वृत्र-हत्ये । वसि । शूर-सातौ । यत् । वा । दक्षस्य । बिभ्युषः । अबिभ्यत् । अरन्धयः । शर्धतः । इन्द्र । दस्यून्
पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । प्र-नेनीः । उग्रः । जरितारम् । ऊती । कर्ता । वीराय । सुस्वये । ऊम् ंम् इति[?] । लोकम् । दाता । वसु । स्तुवते । कीरये । चित्
गन्ता । इयन्ति । सवना । हरि-भ्याम् । बभ्रिः । वज्रम् । पपिः । सोमम् । ददिः । गाः । कर्ता । वीरम् । नर्यम् । सर्व-वीरम् । श्रोता । हवम् । गृणतः । स्तोम-वाहाः
अस्मै । वयम् । यत् । ववान । तत् । विविष्मः । इन्द्राय । यः । नः । प्र-दिवः । अपः । करितिकः । सुते । सोमे । स्तुमसि । शंसत् । उक्था । इन्द्राय । ब्रह्म । वर्धनम् । यथा । असत्
॥15॥.
-र्व्_4:6।16-
ब्रह्माणि । हि । चकृषे । वर्धनानि । तावत् । ते । इन्द्र । मति-भिः । विविष्मः । सुते । सोमे । सुत-पाः । शम्-तमानि । रान्द्र्या । क्रियास्म । वक्षणानि । यज्ञैः
सः । नः । बोधि । पुरोळाशम् । रराणः । पिब । तु । सोमम् । गो--ऋजीकम् । इन्द्र । आ । इदम् । बर्हिः । यजमानस्य । सीद । उरुम् । कृधि । त्वायतः । ओं इति । लोकम्
सः । मन्दस्व । हि । अनु । जोषम् । उग्र । प्र । त्वा । यज्ञासः । इमे । अश्नुवन्तु । प्र । इमे । हवासः । पुरु-हूतम् । अस्मे इति । आ । त्वा । इयम् । धीः । अवसे । इन्द्र । यम्याः
तम् । वः । सखायः । सम् । यथा । सुतेषु । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् । कुवित् । तस्मै । असति । नः । भराय । न । सुस्विम् । इन्द्रः । अवसे । मृधाति
एव । इत् । इन्द्रः । सुते । अस्तावि । सोमे । भरत्-वाजेषु । क्षयत् । इत् । मघोनः । असत् । यथा । जरित्रे । उत । सूरिः । इन्द्रः । रायः । विश्व-वारस्य । दाता
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0