ऋग्वेदसंहिता, पदपाठ · अध्याय 6.25
॥18॥.
-र्व्_4:6।19-
(र्व्_6,25)
या । ते । ऊतिः । अवमा । या । परमा । या । मध्यमा । इन्द्र । शुष्मिन् । अस्ति । ताभिः । ओं इति । सु । वृत्र-हत्ये । अवीः । नः । एभिः । च । वाजैः । महान् । नः । उग्र
आभिः । स्पृधः । मिथतीः । अरिषण्यन् । अमित्रस्य । व्यथय । मन्युम् । इन्द्र । आभिः । विश्वाः । अभि-युजः । विषूचीः । आर्याय । विशः । अव । तारीः । दासीः
इन्द्र । जामयः । उत । ये । अजामयः । अर्वाचीनासः । वनुषः । युयुज्रे । त्वम् । एषाम् । विथुरा । शवांसि । जहि । वृष्ण्यानि । कृणुहि । पराचः
शूरः । वा । शूरम् । वनते । शरीरैः । तनू-रुचा । तरुषि । यत् । कृण्वैतेइति । तोके । वा । गोषु । तनये । यत् । अप्-सु । वि । क्रन्दसी इति । उर्वरासु । ब्रवैतेइति
नहि । त्वा । शूरः । न । तुरः । न । धृष्णुः । न । त्वा । योधः । मन्यमानः । युयोध । इन्द्र । नकिः । त्वा । प्रति । अस्ति । एषाम् । विश्वा । जातानि । अभि । असि । तानि
॥19॥.
-र्व्_4:6।20-
सः । पत्यते । उभयोः । नृम्णम् । अयोः । यदि । वेधसः । सम्-इथे । हवन्ते । वृत्रे । वा । महः । नृ-वति । क्षये । वा । व्यचस्वन्ता । यदि । वितन्तसैतेइति
अध । स्म । ते । चर्षणयः । यत् । एजान् । इन्द्र । त्राता । उत । भव । वरूता । अस्माकासः । ये । नृ-तमासः । अर्यः । इन्द्र । सूरयः । दधिरे । पुरः । नः
अनु । ते । दायि । महे । इन्द्रियाय । सत्रा । ते । विश्वम् । अनु । वृत्र-हत्ये । अनु । क्षत्रम् । अनु । सहः । यजत्र । इन्द्र । देवेभिः । अनु । ते । नृ-सह्ये
एव । नः । स्पृधः । सम् । अज । समत्-सु । इन्द्र । ररन्धि । मिथतीः । अदेवीः । विद्याम । वस्तोः । अवसा । गृणन्तः । भरत्-वाजाः । उत । ते । इन्द्र । नूनम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0