ऋग्वेदसंहिता, पदपाठ · अध्याय 6.22
॥12॥.
-र्व्_4:6।13-
(र्व्_6,22)
यः । एकः । इत् । हव्यः । चर्षणीनाम् । इन्द्रम् । तम् । गीः-भिः । अभि । अर्चे । आभिः । यः । पत्यते । वृषभः । वृष्ण्य-वान् । सत्यः । सत्वा । पुरु-मायः । सहस्वान्
तम् । ओं इति । नः । पूर्वे । पितरः । नव-ग्वाः । सप्त । विप्रासः । अभि । वाजयन्तः । नक्षत्-दाभम् । ततुरिम् । पर्वते--स्थाम् । अद्रोघ-वाचम् । मति-भिः । शविष्ठम्
तम् । ईमहे । इन्द्रम् । अस्य । रायः । पुरु-वीरस्य । नृ-वतः । पुरु-क्षोः । यः । अस्कृधोयुः । अजरः । स्वः-वान् । तम् । आ । भर । हरि-वः । मादयध्यै
तत् । नः । वि । वोचः । यदि । ते । पुरा । चित् । जरितारः । आनशुः । सुम्नम् । इन्द्र । कः । ते । भागः । किम् । वयः । दुध्र । खिद्वः । पुरु-हूत । पुरुवसो इतिपुरु-वसो । असुर-घ्नः
तम् । पृच्छन्ती । वज्र-हस्तम् । रथे--स्थाम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गीः । तुवि-ग्राभम् । तुवि-कूर्मिम् । रभः-दाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ
॥13॥.
-र्व्_4:6।14-
अया । ह । त्यम् । मायया । ववृधानम् । मनः-जुवा । स्व-तवः । पर्वतेन । अच्युता । चित् । वीळिता । सु-ओजः । रुजः । वि । दृळ्हा । धृषता । वि-रप्शिन्
तम् । वः । धिया । नव्यस्या । शविष्ठम् । प्रत्नम् । प्रत्न-वत् । परि-तंसयध्यै । सः । नः । वक्षत् । अनि-मानः । सु-वह्ना । इन्द्रः । विश्वानि । अति । दुः-गहाणि
आ । जनाय । द्रुह्वणे । पार्थिवानि । दिव्यानि । दीपयः । अन्तरिक्षा । तप । वृषन् । विश्वतः । शोचिषा । तान् । ब्रह्म-द्विषे । शोचय । क्षाम् । अपः । च
भुवः । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगतः । त्वेष-सन्दृक् । धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा । अजुर्य । दयसे । वि । मायाः
आ । सम्-यतम् । इन्द्र । णः । स्वस्तिम् । शत्रु-तूर्याय । बृहतीम् । अमृध्राम् । यया । दासानि । आर्याणि । वृत्रा । करः । वज्रिन् । सु-तुका । नाहुषाणि
सः । नः । नियुत्-भिः । पुरु-हूत । वेधः । विश्व-वाराभिः । आ । गहि । प्रयज्यो इतिप्र-यज्यो । न । याः । अदेवः । वरते । न । देवः । आ । आभिः । याहि । तूयम् । आ । मद्र्यद्रिक्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0