भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.21

6.21.1

॥10॥.
-र्व्_4:6।11-
(र्व्_6,21)
इमाः । ओं इति । त्वा । पुरु-तमस्य । कारोः । हव्यम् । वीर । हव्याः । हवन्ते । धियः । रथे--स्थाम् । अजरम् । नवीयः । रयिः । वि-भूतिः । ईयते । वचस्या

6.21.2

तम् । ओं इति । स्तुषे । इन्द्रम् । यः । विदानः । गिर्वाहसम् । गीः-भिः । यज्ञ-वृद्धम् । यस्य । दिवम् । अति । मह्ना । पृथिव्याः । पुरु-मायस्य । रिरिचे । महि-त्वम्

6.21.3

सः । इत् । तमः । अवयुनम् । ततन्वत् । सूर्येण । वयुन-वत् । चकार । कदा । ते । मर्ताः । अमृतस्य । धाम । इयक्षन्तः । न । मिनन्ति । स्वधावः

6.21.4

यः । ता । चकार । सः । कुह । स्वित् । इन्द्रः । कम् । आ । जनम् । चरति । कासु । विक्षु । कः । ते । यज्ञः । मनसे । शम् । वराय । कः । अर्कः । इन्द्र । कतमः । सः । होता

6.21.5

इदा । हि । ते । वेविषतः । पुराजाः । प्रत्नासः । आसुः । पुरु-कृत् । सखायः । ये । मद्यमासः । उत । नूतनासः । उत । अवमस्य । पुरु-हूत । बोधि

6.21.6

॥11॥.
-र्व्_4:6।12-
तम् । पृच्छन्तः । अवरासः । पराणि । प्रत्ना । ते । इन्द्र । श्रुत्या । अनु । येमुः । अर्चामसि । वीर । ब्रह्म-वाहः । यात् । एव । विद्म । तात् । त्वा । महान्तम्

6.21.7

अभि । त्वा । पाजः । रक्षसः । वि । तस्थे । महि । जज्ञानम् । अभि । तत् । सु । तिष्ठ । तव । प्रत्नेन । युज्येन । सख्या । वज्रेण । धृष्णो इति । अप । ता । नुदस्व

6.21.8

सः । तु । श्रुधि । इन्द्र । नूतनस्य । ब्रह्मण्यतः । वीर । कारु-धायः । त्वम् । हि । आपिः । प्र-दिवि । पितॄणाम् । शश्वत् । बभूथ । सु-हवः । आइष्टौ

6.21.9

प्र । ऊतये । वरुणम् । मित्रम् । इन्द्रम् । मरुतः । कृष्व । अवसे । नः । अद्य । प्र । पूषणम् । विष्णुम् । अग्निम् । पुरम्-धिम् । सवितारम् । ओषधीः । पर्वतान् । च

6.21.10

इमे । ओं इति । त्वा । पुरु-शाक । प्रयज्यो इतिप्र-यज्यो । जरितारः । अभि । अर्चन्ति । अर्कैः । श्रुधि । हवम् । आ । हुवतः । हुवानः । न । त्वावान् । अन्यः । अमृत । त्वत् । अस्ति

6.21.11

नु । मे । आ । वाचम् । उप । याहि । विद्वान् । विश्वेभिः । सूनो इति । सहसः । यजत्रैः । ये । अग्नि-जिह्वाः । ऋत-सापः । आसुः । ये । मनुम् । चक्रुः । उपरम् । दसाय

6.21.12

सः । नः । बोधि । पुरः-एता । सु-गेषु । उत । दुः-गेषु । पथि-कृत् । विदानः । ये । अश्रमासः । उरवः । वहिष्ठाः । तेभिः । नः । इन्द्र । अभि । वक्षि । वाजम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc