भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.1

6.1.1

॥34॥.
मन्दल 6
-र्व्_4:4।35-
(र्व्_6,1)
त्वम् । हि । अग्ने । प्रथमः । मनोता । अस्याः । धियः । अभवः । दस्म । होता । त्वम् । सीम् । वृषन् । अकृणोः । दुस्तरीतु । सहः । विश्वस्मै । सहसे । सहध्यै

6.1.2

अध । हाता । नि । असीदः । यजीयान् । इळः । पदे । इषयन् । ईड्यः । सन् । तम् । त्वा । नरः । प्रथमम् । देव-यन्तः । महः । राये । चितयन्तः । अनु । ग्मन्

6.1.3

वृताइव । यन्तम् । बहु-भिः । वसव्यैः । त्वे इति । रयिम् । जागृ-वांसः । अनु । ग्मन् । रुशन्तम् । अग्निम् । दर्शतम् । बृहन्तम् । वपावन्तम् । विश्वहा । दीदि-वांसम्

6.1.4

पदम् । देवस्य । नमसा । व्यन्तः । श्रवस्यवः । श्रवः । आपन् । अमृक्तम् । नामानि । चित् । दधिरे । यज्ञियानि । भद्रायाम् । ते । रणयन्त । सम्-दृष्टौ

6.1.5

त्वाम् । वर्धन्ति । क्षितयः । पृथिव्याम् । त्वाम् । रायः । उभयासः । जनानाम् । त्वम् । त्राता । तरणे । चेत्यः । भूः । पिता । माता । सदम् । इत् । मानुषाणाम्

6.1.6

॥35॥.
-र्व्_4:4।36-
सपर्येण्यः । सः । प्रियः । विक्षु । अग्निः । होता । मन्द्रः । नि । सिसाद । यजीयान् । तम् । त्वा । वयम् । दमे । आ । दीदि-वांसम् । उप । ज्ञु-बाधः । नमसा । सदेम

6.1.7

त्वम् । त्वा । वयम् । सु-ध्यः । नव्यम् । अग्ने । सुम्न-यवः । ईमहे । देव-यन्तः । त्वम् । विशः । अनयः । दीद्यानः । दिवः । अग्ने । बृहता । रोचनेन

6.1.8

विशाम् । कविम् । विश्पतिम् । शश्वतीनाम् । नि-तोशनम् । वृषभम् । चर्षणीनाम् । प्रेति-इषणिम् । इषयन्तम् । पावकम् । राजन्तम् । अग्निम् । यजतम् । रयीणाम्

6.1.9

सः । अग्ने । ईजे । शशमे । च । मर्तः । यः । ते । आनट् । सम्-इधा । हव्य-दातिम् । यः । आहुतिम् । परि । वेद । नमः-भिः । विश्वा । इत् । सः । वामा । दधते । त्वाऊतः

6.1.10

अस्म्सि । ओं इति । ते । महि । महे । विधेम । नमः-भिः । अग्ने । सम्-इधा । उत । हव्यैः । वेदी । सूनो इति । सहसः । गीः-भिः । उक्थैः । आ । ते । भद्रायाम् । सु-मतौ । यातेम

6.1.11

आ । यः । ततन्थ । रोदसी इति । वि । भासा । श्रवः-भिः । च । श्रवस्यः । तरुत्रः । बृहत्-भिः । वाजैः । स्थविरेभिः । अस्मे इति । रेवत्-भिः । अग्ने । वि-तरम् । वि । भाहि

6.1.12

नृ-वत् । वसो इति । सदम् । इत् । धेहि । अस्मे इति । भूरि । तोकाय । तनयाय । पश्वः । पूर्वीः । इषः । बृहतीः । आरे--अघाः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु

6.1.13

पुरूणि । अग्ने । पुरुधा । त्वाया । वसूनि । राजन् । वसुता । ते । अश्याम् । पुरूणि । हि । त्वे इति । पुरु-वार । सन्ति । अग्ने । वसु । विधते । राजनि । त्वे इति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc