ऋग्वेदसंहिता, पदपाठ · अध्याय 6.18
॥3॥.
-र्व्_4:6।4-
(र्व्_6,18)
तम् । ओं इति । स्तुहि । यः । अभिभूति-ओजाः । वन्वन् । अवातः । पुरु-हूतः । इन्द्रः । अषाळ्हम् । उग्रम् । सहमानम् । आभिः । गीः-भिः । वर्ध । वृषभम् । चर्षणीनाम्
सः । युध्मः । सत्वा । खज-कृत् । समत्-वा । तुवि-म्रक्षः । नदनु-मान् । ऋजीषी । बृहत्-रेणुः । च्यवनः । मानुषीणाम् । एकः । कृष्टीनाम् । अभवत् । सह-वा
त्वम् । ह । नु । त्यत् । अदमयः । दस्यून् । एकः । कृष्टीः । अवनोः । आर्याय । अस्ति । स्वित् । नु । वीर्यम् । तत् । ते । इन्द्र । न । स्वित् । अस्ति । तत् । ऋतु-था । वि । वोचः
सत् । इत् । हि । ते । तुवि-जातस्य । मन्ये । सहः । सहिष्ठ । तुरतः । तुरस्य । उग्रम् । उग्रस्य । तवसः । तवीयः । अरध्रस्य । रध्र-तुरः । बभूव
तत् । नः । प्रत्नम् । सख्यम् । अस्तु । युष्मे इति । इत्था । वदत्-भिः । वलम् । अङ्गिरः-भिः । हन् । अच्युत-च्युत् । दस्म । इषयन्तम् । ऋणोः । पुरः । वि । दुरः । अस्य । विश्वाः
॥4॥.
-र्व्_4:6।5-
सः । हि । धीभिः । हव्यः । अस्ति । उग्रः । ईशान-कृत् । महति । वृत्र-तूर्ये । सः । तोक-साता । तनये । सः । वज्री । वितन्तसाय्यः । अभवत् । समत्-सु
सः । मज्मना । जनिम । मानुषाणाम् । अमर्त्येन । नाम्ना । अति । प्र । सर्स्रे । सः । द्युम्नेन । सः । शवसा । उत । राया । सः । वीर्येण । नृ-तमः । सम्-ओकाः
सः । यः । न । मुहे । न । मिथु । जनः । भूत् । सुमन्तु-नामा । । चुमुरिम् । धुनिम् । च । वृणक् । पिप्रुम् । शम्बरम् । शुष्णम् । इन्द्रः । पुराम् । च्यौत्नाय । शयथाय । नु । चित्
उत्-अवता । त्वक्षसा । पन्यसा । च । वृत्र-हत्याय । रथम् । इन्द्र । तिष्ठ । धि ष्व । वज्रम् । हस्ते । आ । दक्षिण-त्रा । अभि । प्र । मन्द । पुरु-दत्र । मायाः
अग्निः । न । शुष्कम् । वनम् । इन्द्र । हेती । रक्षः । नि । धक्षि । अशनिः । न । भीमा । गम्भीरया । ऋष्वया । यः । रुरोज । स्ध्वनयत् । दुः-इता । दम्भयत् । च
॥5॥.
-र्व्_4:6।6-
आ । सहस्रम् । पथि-भिः । इन्द्र । राया । तुवि-द्युम्न । तुवि-वाजेभिः । अर्वाक् । याहि । सूनो इति । सहसः । यस्य । नु । चित् । अदेवः । ईशे । पुरु-हूत । योतोः
प्र । तुवि-द्युम्नस्य । स्थविरस्य । घृष्वेः । दिवः । ररप्शे । महिमा । पृथि व्याः । न । अस्य । शत्रुः । न । प्रति-मानम् । अस्ति । न । प्रति-स्थिः । पुरुय्मायस्य । सह्योः
प्र । तत् । ते । अद्य । करणम् । कृतम् । भूत् । कुत्सम् । यत् । आयुम् । अतिथि-ग्वम् । अस्मै । पुरु । सहस्रा । नि । शिशाः । अभि । क्षाम् । उत् । तूर्वयाणम् । धृषता । निनेथ
अनु । त्वा । अहि-घ्ने । अध । देव । देवाः । मदन् । विश्वे । कवि-तमम् । कवीनाम् । करः । यत्र । वरिवः । बाधिताय । दिवे । जनाय । तन्वे । गृणानः
अनु । द्यावापृथिवी इति । तत् । ते । ओजः । अमर्त्याः । जिहते । इन्द्र । देवाः । कृष्व । कृत्नो इति । अकृतम् । यत् । ते । अस्ति । उक्थम् । नवीयः । जनयस्व । यज्ञैः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0