ऋग्वेदसंहिता, पदपाठ · अध्याय 6.19
॥6॥.
-र्व्_4:6।7-
(र्व्_6,19)
महान् । इन्द्रः । नृ-वत् । आ । चर्षणि-प्राः । उत । द्वि-बर्हाः । अमिनः । सहः-भिः । अस्मद्र्यक् । ववृधे । वीर्याय । उरुः । पृथुः । सु-कृतः । कर्तृ-भिः । भूत्
इन्द्रम् । एव । धिषणा । सातये । धात् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् । अषाळ्हेन । शवसा । शूसु-वांसम् । सद्यः । चित् । यः । ववृधे । असामि
पृथू इति । करस्ना । बहुला । गभस्ती इति । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि । यूथाइव । पश्वः । पशु-पाः । दमूनाः । अस्मान् । इन्द्र । अभि । आ । ववृत्स्व । आजौ
तम् । वः । इन्द्रम् । चतिनम् । अस्य । शाकैः । इह । नूनम् । वाज-यन्तः । हुवेम । यथा । चित् । पूर्वे । जरितारः । आसुः । अनेद्याः । अनवद्याः । अरिष्टाः
धृत-व्रतः । धन-दाः । सोम-वृद्धः । सः । हि । वामस्य । वसुनः । पुरु-क्षुः । सम् । जिग्मिरे । पथ्याः । रायः । अस्मिन् । समुद्रे । न । सिन्धवः । यादमानाः
॥7॥.
-र्व्_4:6।8-
शविष्ठम् । नः । आ । भर । शूर । शवः । ओजिष्ठम् । ओजः । अभि-भूते । उग्रम् । विश्वा । द्युम्ना । वृष्ण्या । मानुषाणाम् । अस्म्भ्यम् । दाः । हरि-वः । मादयध्यै
यः । ते । मदः । पृतनाषाट् । अमृध्रः । इन्द्र । तम् । नः । आ । भर । शूशु-वांसम् । येन । तोकस्य । तनयस्य । सातौ । मंसीमहि । जिगीवांसः । त्वाऊताः
आ । नः । भर । वृषणम् । शुष्मम् । इन्द्र । धन-स्पृतम् । शूशु-वांसम् । सु-दक्षम् । येन । वंसाम । पृतनासु । शत्रून् । तव । ऊति-भिः । उत । जामीन् । अजामीन्
आ । ते । शुष्मः । वृषभः । एतु । पश्चात् । आ । उत्तरात् । अधरात् । आ । पुरस्तात् । आ । विश्वतः । अभि । सम् । एतु । अर्वाङ् । इन्द्र । द्युम्नम् । स्वः-वत् । धेहि । अस्मे इति
नृ-वत् । ते । इन्द्र । नृ-तमाभिः । ऊती । वंसीमहि । वामम् । श्रोमतेभिः । ईक्षे । ह् इ । वस्वः । उभयस्य । राजन् । धाः । रत्नम् । महि । स्थूरम् । बृहन्तम्
मरुत्वन्तम् । वृषभम् । ववृधानम् । अकव-अरिम् । दिव्यम् । शासम् । इन्द्रम् । विश्व-सहम् । अवसे । नूतनाय । उग्रम् । सहः-दाम् । इह । तम् । हुवेम
जनम् । वज्रिन् । महि । चित् । मन्यमानम् । एभ्यः । नृ-भ्यः । रन्धय । येषु । अस्मि । अध । हि । त्वा । पृथिव्याम् । शूर-सातौ । हवामहे । तनये । गोषु । अप्-सु
वयम् । ते । एभिः । पुरु-हूत । सख्यैः । शत्रोः-शत्रोः । उत्-तरे । इत् । स्याम । घ्नन्तः । वृत्राणि । उभयानि । शूर । राया । मदेम । बृहता । त्वाऊताः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0