भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.14

6.14.1

॥15॥.
-र्व्_4:5।16-
(र्व्_6,14)
अग्ना । यः । मर्त्यः । दुवः । धियम् । जुजोष । धीति-भिः । भसत् । नु । सः । प्र । पूर्व्यः । इषम् । वुरीत । अवसे

6.14.2

अग्निः । इत् । हि । प्र-चेर्ताः । अग्निः । वेधः-तमः । ऋषिः । अग्निम् । होतारम् । ईळते । यज्ञेषु । मनुषः । विशः

6.14.3

नाना । हि । अग्ने । अवसे । स्पर्धन्ते । रायः । अर्यः । तूर्वन्तः । दस्युम् । आयवः । व्रतैः । सीक्षन्तः । अव्रतम्

6.14.4

अग्निः । अप्साम् । ऋति-सहम् । वीरम् । ददाति । सत्-पतिम् । यस्य । त्रसन्ति । शवसः । सम्-चक्षि । शत्रवः । भिया

6.14.5

अग्निः । हि । विद्मना । निदः । देवः । मर्तम् । उरुष्यति । सह-वा । यस्य । अवृतः । रयिः । वाजेषु । अवृतः

6.14.6

अच्छ । नः । मित्र-महः । देव । देवान् । अग्ने । वोचः । सु-मतिम् । रोदस्योः । वीहि । स्वस्तिम् । सु-क्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुः-इता । तरेम । ता । तरेम । तव । अवसा । तरेम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc