ऋग्वेदसंहिता, पदपाठ · अध्याय 6.13
॥14॥.
-र्व्_4:5।15-
(र्व्_6,13)
त्वत् । विश्वा । सु-भग । सौभगानि । अग्ने । वि । यान्ति । वनिनः । न । वयाः । श्रुष्टी । रयिः । वाजः । वृत्र-तूर्ये । दिवः । वृष्टिः । ईड्यः । रीतिः । अपाम्
त्वम् । भगः । नः । आ । हि । रत्नम् । इषे । परिज्माइव । क्षयसि । दस्म-वर्चाः । अग्ने । मित्रः । न । बृहतः । ऋतस्य । असि । क्षत्ता । वामस्य । देव । भूरेः
सः । सत्-पतिः । शवसा । हन्ति । वृत्रम् । अग्ने । विप्रः । वि । पणेः । भर्ति । वाजम् । यम् । त्वम् । प्र-चेतः । ऋत-जात । राया । स-जोषाः । नप्त्रा । अपाम् । हिनोषि
यः । ते । सूनो इति । सहसः । गीः-भिः । उक्थैः । यज्ञैः । मर्तः । नि-शितम् । वेद्या । आनट् । विश्वम् । सः । देव । प्रति । वारम् । अग्ने । धत्ते । धान्यम् । पत्यते । वसव्यैः
ता । नृ-भ्यः । आ । सौश्रवसा । सु-वीरा । अग्ने । सूनो इति । सहसः । पुष्यसे । धाः । कृणोषि । यत् । शवसा । भूरि । पश्वः । वयः । वृकाय । अरये । जसुरये
वद्मा । सूनो इति । सहसः । नः । वि-हायाः । अग्ने । तोकम् । तनयम् । वाजि । नः । दाः । विश्वाभिः । गीः-भिः । अभि । पूर्तिम् । अश्याम् । मदेम । शत-हिमाः । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0