ऋग्वेदसंहिता, पदपाठ · अध्याय 6.12
॥13॥.
-र्व्_4:5।14-
(र्व्_6,12)
मध्ये । होता । दुरोणे । बर्हिषः । राट् । अग्निः । तोदस्य । रोदसी इति । यजध्यै । अयम् । सः । सूनुः । सहसः । ऋत-वा । दूरात् । सूर्यः । न । शोचिषा । ततान
आ । यस्मिन् । त्वे इति । सु । अपाके । यजत्र । यक्षत् । राजन् । सर्वताताइव । नु । द्यौः । त्रि-सधस्थः । ततरुषः । न । जंहः । हव्या । मघानि । मानुषा । यजध्यै
तेजिष्ठा । यस्य । अरतिः । वने--राट् । तोदः । अध्वन् । न । वृधसानः । अद्यौत् । अद्रोघः । न । द्रविता । चेतति । त्मन् । अमर्त्यः । अवर्त्रः । ओषधीषु
सः । अस्माकेभिः । एतरि । न । शूषैः । अग्निः । स्तवे । दमे । आ । जात-वेदाः । द्रु-अन्नः । वन्वन् । क्रत्वा । न । अर्वा । उस्रः । पिताइव । जारयायि । यज्ञैः
अध । स्म । अस्य । पनयन्ति । भासः । वृथा । यत् । तक्षत् । अनु-याति । पृथ्वीम् । सद्यः । यः । स्पन्द्रः । वि-सितः । धवीयान् । ऋणः । न । तायुः । अति । धन्व । राट्
सः । त्वम् । नः । अर्वन् । निदायाः । विश्वेभिः । अग्ने । अग्निभिः । इधानः । मदेम । शत-हिमाः । सु-वीराः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0