भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 6.11

6.11.1

॥12॥.
-र्व्_4:5।13-
(र्व्_6,11)
यजस्व । होतः । इषितः । यजीयान् । अग्ने । बाधः । मरुताम् । न । प्र-युक्ति । आ । नः । मित्रावरुणा । नासत्या । द्यावा । होत्राय । पृथिवी इति । ववृत्याः

6.11.2

त्वम् । होता । मन्द्र-तमः । नः । अध्रुक् । अन्तः । देवः । विदथा । मर्तेषु । पावकया । जुह्वा । वह्निः । आसा । अग्ने । यजस्व । तन्वम् । तव । स्वाम्

6.11.3

धन्या । चित् । हि । त्वे इति । धिषणा । वष्टि । प्र । देवान् । जन्म । गृणते । यजध्यै । वेपिष्ठः । अङ्गिरसाम् । यत् । ह । विप्रः । मधु । छन्दः । भनति । रेभः । इष्टौ

6.11.4

अदिद्युतत् । सु । अपाकः । वि-भावा । अग्ने । यजस्व । रोदसी इति । उरूची इति । ।
आयुम् । न । यम् । नमसा । रात-हव्याः । अञ्जन्ति । सु-प्रयसम् । पञ्च । जनाः

6.11.5

वृञ्जे । ह । यत् । नमसा । बर्हिः । अग्नौ । अयामि । स्रुक् । घृत-वती । सु-वृक्तिः । अम्यक्षि । सद्म । सदने । पृथिव्याः । अश्रायि । यज्ञः । सूर्ये । न । चक्षुः

6.11.6

दृशस्य । नः । पुरु-अणीक । होतः । देवेभिः । अग्ने । अग्नि-भिः । इधानः । रायः । सूनो इति । सहसः । ववसानाः । अति । स्रसेम । वृजनम् । न । अंहः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc