ऋग्वेदसंहिता, पदपाठ · अध्याय 5.87
॥32॥.
-र्व्_4:4।33-
(र्व्_5,87)
प्र । वः । महे । मतयः । यन्तु । विष्णवे । मरुत्वते । गिरि-जाः । एवयामरुत् । प्र । शर्धाय । प्र-यज्यवे । सु-खादये । तवसे । भन्दत्-इष्टये । धुनि-व्रताय । शवसे
प्र । ये । जाताः । महिना । ये । च । नु । स्वयम् । प्र । विद्मना । ब्रुवते । एवयामरुत् । क्रत्वा । तत् । वः । मरुतः । न । आधृषे । शवः । दाना । मह्ना । तत् । एषाम् । अधृष्टासः । न । अद्रयः
प्र । ये । दिवः । बृहतः । शृण्विरे । गिरा । सु-शुक्वानः । सु-भ्वः । एवयामरुत् । न । येषाम् । इरी । सध-स्थे । ईष्टे । आ । अग्नयः । न । स्व-विद्युतः । प्र । स्पन्द्रासः । धुनीनाम्
सः । चक्रमे । महतः । निः । उरु-कृअमः । समानस्मात् । सदसः । एवयामरुत् । यदा । अयुक्त । त्मना । स्वात् । अधि । स्नु-भिः । वि-स्पर्धसः । वि-महसः । जिगाति । शे--वृधः । नृ-भिः
स्वनः । न । वः । अम-वान् । रेजयत् । वृषा । त्वेषः । ययिः । तविषः । एवयामरुत् । येन । सहन्तः । ऋञ्जत । स्व-रोचिषः । स्थाः-रश्मानः । हिरण्ययाः । सु-आयुधासः । इष्मिणः
॥33॥.
-र्व्_4:4।34-
अपारः । वः । महिमा । वृद्ध-शवसः । त्वेषम् । शवः । अवतु । एवयामरुत् । स्थातारः । हि । प्र-सितौ । सम्-दृशि । स्थन । ते । नः । उरुष्यत । निदः । शुशुक्वांसः । न । अग्नयः
ते । रुद्रासः । सु-मखाः । अग्नयः । यथा । तुवि-द्युम्नाः । अवन्तु । एवयामरुत् । दीर्घम् । पृथु । पप्रथे । सद्म । पार्थिवम् । येषाम् । अज्मेषु । आ । महः । शर्धांस् इ । अद्भुत-एनसाम्
अद्वेषः । नः । मरुतः । गातुम् । आ । इतन । श्रोत । हवम् । जरितुः । एवयामरुत् । विष्णोः । महः । स-मन्यवः । युयोतन । स्मत् । रथ्यः । न । दंसना । अप । द्वेषांसि । सनुतरिति
गन्त । नः । यज्ञम् । यज्ञियाः । सु-शमि । श्रोत । हवम् । अरक्षः । एवयामरुत् । ज्येष्ठासः । न । पर्वतासः । वि-ओमनि । यूयम् । तस्य । प्र-चेतसः । स्यात । दुः-धर्तवः । निदः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0