ऋग्वेदसंहिता, पदपाठ · अध्याय 5.9
॥26॥.
-र्व्_4:1।1-
(र्व्_5,9)
त्वाम् । अग्ने । हविष्मन्तः । देवम् । मर्तासः । ईळते । मन्ये । त्वा । जात-वेदसम् । सः । हव्या । वक्षि । आनुषक्
अग्निः । होता । दास्वतः । क्षयस्य । वृक्त-बर्हिषः । सम् । यज्ञासः । चरन्त् इ । यम् । सम् । वाजासः । श्रवस्यवः
उत । स्म । यम् । शिशुम् । यथा । नवम् । जनिष्ट । अरणी इति । धर्तारम् । मानुषीणाम् । विशाम् । अग्निम् । सु-अध्वरम्
उत । स्म । दुः-गृभीयसे । पुत्रः । न । ह्वार्याणाम् । पुरु । यः । दग्धा । असि । वना । अग्ने । पशुः । न । यवसे
अध । स्म । यस्य । अर्चयः । सम्यक् । सम्-यन्ति । धूमिनः । यत् । ईमहे । त्र् इतः । दिवि । उप । ध्माताइव । धमति । शिशीते । ध्मातरि । यथा
तव । अहम् । अग्ने । ऊति-भिः । मित्रस्य । च । प्रशस्ति-भिः । द्वेषः-युतः । न । दुः-इता । तुर्याम । मर्त्यानाम्
तत् । नः । अग्ने । अभि । नरः । रयिम् । सहस्वः । आ । भर । सः । क्षेपयत् । सः । पोषयत् । भुवत् । वाजस्य । सातये । उत । एधि । नः । वृधे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0