ऋग्वेदसंहिता, पदपाठ · अध्याय 5.8
॥25॥.
-र्व्_3:8।26-
(र्व्_5,8)
त्वाम् । अग्ने । ऋत-यवः । सम् । ईधिरे । प्रत्नम् । प्रत्नासः । ऊतये । सहः-कृत । पुरु-चन्द्रम् । यजतम् । विश्व-धायसम् । दमूनसम् । गृह-पतिम् । वरेण्यम्
त्वाम् । अग्ने । अतिथिम् । पूर्व्यम् । विशः । शोचिः-केशम् । गृह-पतिम् । नि । सेदिरे । बृहत्-केतुम् । पुरु-रूपम् । धन-स्पृतम् । सु-शर्माणम् । सु-अवसम् । जरत्-विषम्
त्वाम् । अग्ने । मानुषीः । ईळते । विशः । होत्राविदम् । विविचिम् । रत्न-धातमम् । गुहा । सन्तम् । सु-भग । विश्व-दर्शतम् । तुवि-स्वणसम् । सु-यजम् । घृत-श्र् इयम्
त्वाम् । अग्ने । धर्णसिम् । विश्व-धा । वयम् । गीः-भिः । गृणन्तः । नमसा । उप । सेदिम । सः । नः । जुषस्व । सम्-इधानः । अङ्गिरः । देवः । मर्तस्य । यशसा । सुदीति-भिः
त्वम् । अग्ने । पुरु-रूपः । विशे--विशे । वयः । दधासि । प्रत्न-था । पुरुस्तुत । पुरूणि । अन्ना । सहसा । वि । राजसि । त्विषिः । सा । ते । तित्विषाणस्य । न । आधृषे
त्वाम् । अग्ने । सम्-इधानम् । यविष्ठ्य । देवाः । दूतम् । चक्रिरे । हव्य-वाहनम् । उरु-ज्रयसम् । घृत-योनिम् । आहुतम् । त्वेषम् । चक्षुः । दधिरे । चोदयत्-मति
त्वाम् । अग्ने । प्र-दिवः । आहुतम् । घृतैः । सुम्न-यवः । सु-समिधा । सम् । ईधिरे । सः । ववृधानः । ओषधी-भिः । उक्षितः । अभि । ज्रयांसि । पार्थिवा । वि । त् इष्ठसे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0