ऋग्वेदसंहिता, पदपाठ · अध्याय 5.10
॥1॥.
-र्व्_4:1।2-
(र्व्_5,10)
अग्ने । ओजिष्ठम् । आ । भर । द्युम्नम् । अस्मभ्यम् । अध्रिगो इत्य् अध्रि-गो । प्र । नः । राया । परीणसा । रत्सि । वाजाय । पन्थाम्
त्वम् । नः । अग्ने । अद्भुत । क्रत्वा । दक्षस्य । मंहना । त्वे इति । असुर्यम् । आ । अरुहत् । क्राणा । मित्रः । न । यज्ञियः
त्वम् । नः । अग्ने । एषाम् । गयम् । पुष्टिम् । च । वर्धय । ये । स्तोमेभिः । प्र । सूरयः । नरः । मघानि । आनशुः
ये । अग्ने । चन्द्र । ते । गिरः । शुम्भन्ति । अश्व-राधसः । शुष्मेभिः । शुष्मिणः । नरः । दिवः । चित् । येषाम् । बृहत् । सु-कीर्तिः । बोधति । त्मना
तव । त्ये । अग्ने । अर्चयः । भ्राजन्तः । यन्ति । धृष्णु-या । परि-ज्मानः । न । वि-द्युतः । स्वानः । रथः । न । वाजयुः
नु । नः । अग्ने । ऊतये । स-बाधसः । च । रातये । अस्माकासः । च । सूरयः । वि श्वाः । आसाः । तरीषणि
त्वम् । नः । अग्ने । अङ्गिरः । स्तुतः । स्तवानः । आ । भर । होतः । विभ्व-सहम् । रयिम् । स्तोतृ-भ्यः । स्तवसे । च । नः । उत । एधि । पृत्-सु । नः । वृधे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0