ऋग्वेदसंहिता, पदपाठ · अध्याय 5.86
॥31॥.
-र्व्_4:4।32-
(र्व्_5,86)
इन्द्राग्नी इति । यम् । अवथः । उभा । वाजेषु । मर्त्यम् । दृळ्हा । चित् । सः । प्र । भेदति । द्युम्ना । वाणीः-इव । त्रितः
या । पृतनासु । दुस्तरा । या । वाजेषु । श्रवाय्या । या । पञ्च । चर्षणीः । अभि । इन्द्राग्नी इति । ता । हवामहे
तयोः । इत् । अम-वत् । शवः । तिग्मा । दिद्युत् । मघोनोः । प्रति । द्रुणा । गभस्त्योः । गवाम् । वृत्र-घ्ने । आ । ईषते
आ । वाम् । एषे । रथानाम् । इन्द्राग्नी इति । हवामहे । पती इति । तुरस्य । राधसः । विद्वांसा । गिर्वणः-तमा
ता । वृधन्तौ । अनु । द्यून् । मर्ताय । देवौ । अदभा । अर्हन्ता । चित् । पुरः । दधे । अंशाइव । देवौ । अर्वते
एव । इन्द्राग्नि-भ्याम् । अहावि । हव्यम् । सूष्यम् । घृतम् । न । पूतम् । अद्रि-भिः । ता । सूरिषु । श्रवः । बृहत् । रयिम् । गृणत्-सु । दिधृतम् । इषम् । गृणत्-सु । दिधृतम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0