ऋग्वेदसंहिता, पदपाठ · अध्याय 5.85
॥29॥.
-र्व्_4:4।30-
(र्व्_5,85)
प्र । सम्-राजे । बृहत् । अर्च । गभीरम् । ब्रह्म । प्रियम् । वरुणाय । श्रुताय । वि । यः । जघान । शमिताइव । चर्म । उप-स्तिरे । पृथिवीम् । सूर्याय
वनेषु । वि । अन्तरिक्षम् । ततान । वाजम् । अर्वत्-सु । पयः । उस्रियासु । हृत्-सु । क्रतुम् । वरुणः । अप्-सु । अग्निम् । दिवि । सूर्यम् । अदधात् । सोमम् । अद्रौ
नीचीन-बारम् । वरुणः । कवन्धम् । प्र । ससर्ज । रोदसी इति । अन्तरिक्षम् । तेन । विश्वस्य । भुवनस्य । राजा । यवम् । न । वृष्टिः । वि । उनत्ति । भूम
उनत्ति । भूमिम् । पृथिवीम् । उत । द्याम् । यदा । दुग्धम् । वरुणः । वष्टि । आत् । इत् । सम् । अभ्रेण । वसत । पर्वतासः । तविषी-यन्तः । श्रथयन्त । वीराः
इमाम् । ओं इति । सु । आसुरस्य । श्रुतस्य । महीम् । मायाम् । वरुणस्य । प्र । वोचम् । मानेन-इव । तस्थि-वान् । अन्तरिक्षे । वि । यः । ममे । पृथिवीम् । सूर्येण
॥30॥.
-र्व्_4:4।31-
इमाम् । ओं इति । नु । कवि-तमस्य । मायाम् । महीम् । देवस्य । नकिः । आ । दधर्ष । एकम् । यत् । उद्ना । न । पृणन्ति । एनीः । आसिञ्चन्तीः । अवनयः । समुद्रम्
अर्यम्यम् । वरुण । मित्र्यम् । वा । सखायम् । वा । सदम् । इत् । भ्रातरम् । वा । वेशम् । वा । नित्यम् । वरुण । अरणम् । वा । यत् । सीम् । आगः । चकृम । शिश्रथः । तत्
कितवासः । यत् । रिरिपुः । न । दीवि । यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । सर्वा । ता । वि । स्य । शिथिराइव । देव । अध । ते । स्याम । वरुण । प्रियासः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0