भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.84

5.84.1

॥28॥.
-र्व्_4:4।29-
(र्व्_5,84)
बट् । इत्था । पर्वतानाम् । खिद्रम् । बिभर्षि । पृथिवि । प्र । या । भूमिम् । प्रवत्वति । मह्ना । जिनोषि । महिनि

5.84.2

स्तोमासः । त्वा । वि-चारिणि । प्रति । स्तोभन्ति । अक्तु-भिः । प्र । या । वाजम् । न । हेषन्तम् । पेरुम् । अस्यसि । अर्जुनि

5.84.3

दृळ्हा । चित् । या । वनस्पतीन् । क्ष्मया । दर्धर्षि । ओजसा । यत् । ते । अभ्रस्य । वि-द्युतः । दिवः । वर्षन्ति । वृष्टयः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc