भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.83

5.83.1

॥26॥.
-र्व्_4:4।27-
(र्व्_5,83)
अच्छ । वद । तवसम् । गीः-भिः । आभिः । स्तुहि । पर्जन्यम् । नमसा । विवास । कनिक्रदत् । वृषभः । जीर-दानुः । रेतः । दधाति । ओषधीषु । गर्भम्

5.83.2

वि । वृक्षान् । हन्ति । उत । हन्ति । रक्षसः । विश्वम् । बिभाय । भुवनम् । महावधात् । उत । अनागाः । ईषते । वृष्ण्य-वतः । यत् । पर्जन्यः । स्तनयन् । हन्ति । दुः-कृतः

5.83.3

रथी-इव । कशया । अश्वान् । अभि-क्षिपन् । आविः । दूतान् । कृणुते । वर्ष्यान् । अह । दूरात् । सिंहस्य । स्तनथाः । उत् । ईरते । यत् । पर्जन्यः । कृणुते । वर्ष्यम् । नभः

5.83.4

प्र । वाताः । वान्ति । पतयन्ति । वि-द्युतः । उत् । ओषधीः । जिहते । पिन्वते । स्वः । इरा । विश्वस्मै । भुवनाय । जायते । यत् । पर्जन्यः । पृथिवीम् । रेतसा । अवति

5.83.5

यस्य । व्रते । पृथिवी । नन्नमीति । यस्य । व्रते । शफ-वत् । जर्भुरीति । यस्य । व्रते । ओषधीः । विश्व-रूपाः । सः । नः । पर्जन्य । महि । शर्म । यच्छ

5.83.6

॥27॥.
-र्व्_4:4।28-
दिवः । नः । वृष्टिम् । मरुतः । ररीध्वम् । प्र । पिन्वत । वृष्णः । अश्वस्य । धाराः । अर्वाङ् । एतेन । स्तनयित्नुना । आ । इहि । अपः । नि-सिञ्चन् । असुरः । प् इता । नाः

5.83.7

अभि । क्रन्द । स्तनय । गर्भम् । आ । धाः । उदन्-वता । परि । दीय । रथेन । दृतिम् । सु । कर्ष । वि-सितम् । न्यञ्चम् । समाः । भवन्तु । उत्-वतः । नि-पादाः

5.83.8

महान्तम् । कोशम् । उत् । अच । नि । सिञ्च । स्यन्दन्ताम् । कुल्याः । वि-सिताः । पुरस्तात् । घृतेन । द्यावापृथिवी इति । वि । उन्धि । सु-प्रपानम् । भवतु । अघ्न्याभ्यः

5.83.9

यत् । पर्जन्य । कनिक्रदत् । स्तनयन् । हंसि । दुः-कृतः । प्रति । इदम् । विश्वम् । मोदते । यत् । किम् । च । पृथिव्याम् । अधि

5.83.10

अवर्षीः । वर्षम् । उत् । ओं
इति । सु । गृभाय । अकः । धन्वानि । अति-एतवै । ओं इति । अजीजनः । ओषधीः । भोजनाय । कम् । उत । प्र-जाभ्यः । अविदः । मनीषाम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc