भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.82

5.82.1

॥24॥.
-र्व्_4:4।25-
(र्व्_5,82)
तत् । सवितुः । वृणीमहे । वयम् । देवस्य । भोजनम् । श्रेष्ठम् । सर्व-धातमम् । तुरम् । भगस्य । धीमहि

5.82.2

अस्य । हि । स्वयशः-तरम् । सवितुः । कत् । चन । प्रियम् । न । मिनन्ति । स्व-राज्यम्

5.82.3

सः । हि । रत्नानि । दाशुषे । सुवाति । सविता । भगः । तम् । भागम् । चित्रम् । ईमहे

5.82.4

अद्य । नः । देव । सवितरिति । प्रजावत् । सावीः । सौभगम् । परा । दुः-स्वप्न्यम् । सुव

5.82.5

विश्वानि । देव । सवितः । दुः-इतानि । परा । सुव । यत् । भद्रम् । तत् । नः । आ । सुव

5.82.6

॥25॥.
-र्व्_4:4।26-
अनागसः । अदितये । देवस्य । सवितुः । सवे । विश्वा । वामानि । धीमहि

5.82.7

आ । विश्व-देवम् । सत्-पतिम् । सु-उक्तैः । अद्य । वृणीमहे । सत्य-सवम् । सवितारम्

5.82.8

यः । इमे इति । उभे इति । अहनी इति । पुरः । एति । अप्र-युच्छन् । सु-आधीः । देवः । सविता

5.82.9

यः । इमा । विश्वा । जातानि । आश्रावयति । श्लोकेन । प्र । च । सुवाति । सविता

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc