ऋग्वेदसंहिता, पदपाठ · अध्याय 5.81
॥23॥.
-र्व्_4:4।24-
(र्व्_5,81)
युञ्जते । मनः । उत । युञ्जते । धियः । विप्राः । विप्रस्य । बृहतः । विपः-चितः । वि । होत्राः । दधे । वयुन-वित् । एकः । इत् । मही । देवस्य । सवितुः । परि-स्तुतिः
विश्वा । रूपाणि । प्रति । मुञ्चते । कविः । प्र । असावीत् । भद्रम् । द्वि-पदे । चतुः-पदे । वि । नाकम् । अख्यत् । सविता । वरेण्यः । अनु । प्र-यानम् । उषसः । वि । राजति
यस्य । प्र-यामम् । अनु । अन्ये । इत् । ययुः । देवाः । देवस्य । महिमानम् । ओजसा । यः । पार्थिवानि । वि-ममे । सः । एतशः । रजांसि । देवः । सविता । महि-त्वना
उत । यासि । सवितरिति । त्रीणि । रोचना । उत । सूर्यस्य । रश्मि-भिः । सम् । उच्यस् इ । उत । रात्रीम् । उभयतः । परि । ईयसे । उत । मित्रः । भवसि । देव । धर्म-भिः
उत । ईशिषे । प्र-सवस्य । त्वम् । एकः । इत् । उत । पूषा । भवसि । देव । याम-भिः । उत । इदम् । विश्वम् । भुवनम् । वि । राजसि । श्याव-अश्वः । ते । सवितरिति । स्तोमम् । आनशे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0