भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.80

5.80.1

॥22॥.
-र्व्_4:4।23-
(र्व्_5,80)
द्युत-द्यामानम् । बृहतीम् । ऋतेन । ऋत-वरीम् । अरुण-प्सुम् । वि-भातीम् । देवीम् । उषसम् । स्वः । आवहन्तीम् । प्रति । विप्रासः । मति-भिः । जरन्ते

5.80.2

एषा । जनम् । दर्शता । बोधयन्ती । सु-मान् । पथः । कृण्वती । याति । अग्रे । बृहत्-रथा । बृहती । विश्वम्-इन्वा । उषाः । ज्योतिः । यच्छति । अग्रे । अह्नाम्

5.80.3

एषा । गोभिः । अरुणेभिः । युजाना । अस्रेधन्ती । रयिम् । अप्र-आयु । चक्रे । पथः । रदन्ती । सुविताय । पुरु-स्तुता । विश्व-वारा । वि । भाति

5.80.4

एषा । वि-एनी । भवति । द्वि-बर्हाः । आविः-कृण्वाना । तन्वम् । पुरस्तात् । ऋतस्य । पन्थाम् । अनु । एति । साधु । प्र-जानती-इव । न । दिशः । मिनाति

5.80.5

एषा । शुभ्रा । न । तन्वः । विदाना । ऊर्ध्वाइव । स्नाती । दृशये । नः । अस्थात् । अप । द्वेषः । बाधमाना । तमांसि । उषाः । दिवः । दुहिता । ज्योतिषा । आ । अगात्

5.80.6

एषा । प्रतीची । दुहिता । दिवः । नॄन् । योषाइव । भद्रा । नि । रिणीते । अप्सः । वि-ऊर्ण्वती । दाशुषे । वार्याणि । पुनः । ज्योतिः । युवतिः । पूर्व-था । अकर् इत्य् अकः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc