ऋग्वेदसंहिता, पदपाठ · अध्याय 5.79
॥20॥.
-र्व्_4:4।21-
(र्व्_5,79)
महे । नः । अद्य । बोधय । उषः । राये । दिवित्मती । यथा । चित् । नः । अबोधयः । सत्य-श्रवसि । वाय्ये । सु-जाते । अश्व-सूनृते
या । सु-नीथे । शौचत्-रथे । वि । औच्छः । दुहितः । दिवः । सा । वि । उच्छ । सहीयसि । सत्य-श्रवसि । वाय्ये । सु-जाते । अश्व-सूनृते
सा । नः । अद्य । आभरत्-वसुः । वि । उच्छ । दुहितः । दिवः । यो इति । वि । औच्छः । सहीयसि । सत्य-श्रवसि । वाय्ये । सु-जाते । अश्व-सूनृते
अभि । ये । त्वा । विभावरि । स्तोमैः । गृणन्ति । वह्नयः । मघैः । मघोनि । सु-श्रियः । दामन्-वन्तः । सु-रातयः । सु-जाते । अश्व-सूनृते
यत् । चित् । हि । ते । गणाः । इमे । छदयन्ति । मघत्तये । परि । चित् । वष्टयः । दधुः । ददतः । राधः । अह्रयम् । सु-जाते । अश्व-सूनृते
॥21॥.
-र्व्_4:4।22-
आ । एषु । धाः । वीर-वत् । यशः । उषः । मघोनि । सूरिषु । ये । नः । राधांसि । अह्रया । मघ-वानः । अरासत । सु-जाते । अश्व-सूनृते
तेभ्यः । द्युम्नम् । बृहत् । यशः । उषः । मघोनि । आ । वह । ये । नः । राधांसि । अश्व्या । गव्या । भजन्त । सूरयः । सु-जाते । अश्व-सूनृते
उत । नः । गो--मतीः । इषः । आ । वह । दुहितः । दिवः । साकम् । सूर्यस्य । रश्मि-भिः । शुक्रैः । शोचत्-भिः । अर्चि-भिः । सु-जाते । अश्व-सूनृते
वि । उच्छ । दुहितः । दिवः । मा । चिरम् । तनुथाः । अपः । न । इत् । त्वा । स्तेनम् । यथा । रिपुम् । तपाति । सूरः । अर्चिषा । सु-जाते । अश्व-सूनृते
एतावत् । वा । ओत् । उषः । त्वम् । भूयः । वा । दातुम् । अर्हसि । या । स्तोतृ-भ्यः । विभावरि । उच्छन्ती । न । प्र-मीयसे । सु-जाते । अश्व-सूनृते
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0