ऋग्वेदसंहिता, पदपाठ · अध्याय 5.7
॥23॥.
-र्व्_3:8।24-
(र्व्_5,7)
सखायः । सम् । वः । सम्यञ्चम् । इषम् । स्तोमम् । च । अग्नये । वर्षिष्ठाय । क्षि तीनाम् । ऊर्जः । नप्त्रे । सहस्वते
कुत्र । चित् । यस्य । सम्-ऋतौ । रण्वाः । नरः । नृ-सदने । अर्हन्तः । चित् । यम् । इन्धते । सम्-जनयन्ति । जन्तवः
सम् । यत् । इषः । वनामहे । सम् । हव्या । मानुषाणाम् । उत । द्युम्नस्य । शवसा । ऋतस्य । रश्मिम् । आ । ददे
सः । स्म । कृणोति । केतुम् । आ । नक्तम् । चित् । दूरे । आ । सते । पावकः । यत् । वनस्पतीन् । प्र । स्म । मिनाति । अजरः
अव । स्म । यस्य । वेषणे । स्वेदम् । पथिषु । जुह्वति । अभि । ईम् । अह । स्व-जेन्यम् । भूम । पृष्टाइव । रुरुहुः
॥24॥.
-र्व्_3:8।25-
यम् । मर्त्यः । पुरु-स्पृहम् । विदत् । विश्वस्य । धायसे । प्र । स्वादनम् । पितूनाम् । अस्त-तातिम् । चित् । आयवे
सः । हि । ष्म । धन्व । आक्षितम् । दाता । न । दाति । आ । पशुः । हिरि-श्मश्रुः । शुचि--दन् । ऋभुः । अनिभृष्ट-तविषिः
शुचिः । स्म । यस्मै । अत्रि-वत् । प्र । स्वधितिः-इव । रीयते । सु-सूः । असूत । माता । क्राणा । यत् । आनशे । भगम्
आ । यः । ते । सर्पिः-आसुते । अग्ने । शम् । अस्ति । धायसे । आ । एषु । द्युम्नम् । उत । श्रवः । आ । चित्तम् । मर्त्येषु । धाः
इति । चित् । मन्युम् । अध्रिजः । त्वादातम् । आ । पशुम् । ददे । आत् । अग्ने । अपृणतः । अत्रिः । ससह्यात् । दस्यून् । इषः । ससह्यात् । नॄन्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0