भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.6

5.6.1

॥21॥.
-र्व्_3:8।22-
(र्व्_5,6)
अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः । अस्तम् । अवर्न्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.2

सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आयन्ति । धेनवः । सम् । अर्वन्तः । रघु-द्रुवः । सम् । सु-जातासः । सूरय । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.3

अग्निः । हि । वाजिनम् । विशे । ददाति । विश्व-चर्षणिः । अग्निः । राये । सु-आभुवम् । सः । प्रीतः । याति । वार्यम् । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.4

आ । ते । अग्ने । इधीमहि । द्यु-मन्तम् । देव । अजरम् । यत् । ह । स्या । ते । पनीयसी । सम्-इत् । दीदयति । द्यवि । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.5

आ । ते । अग्ने । ऋचा । हविः । शुक्रस्य । शोचिषः । पते । सु-चन्द्र । दस्म । विश्पते । हव्य-वाट् । तुभ्यम् । हूयते । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.6

॥22॥.
-र्व्_3:8।23-
प्रो इति । त्ये । अग्नयः । अग्निषु । विश्वम् । पुष्यन्ति । वार्यम् । ते । हिन्विरे । ते । इन्विरे । ते । इषण्यन्ति । आनुषक् । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.7

तव । त्ये । अग्ने । अर्चयः । महि । व्राधन्त । वाजिनः । ये । पत्व-भिः । शफानाम् । व्रजा । भुरन्त । गोनाम् । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.8

नवाः । नः । अग्ने । आ । भर । स्तोतृ-भ्यः । सु-क्षितीः । इषः । ते । स्याम । ये । आनृचुः । त्वादूतासः । दमे--दमे । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.9

उभे । सु-चन्द्र । सर्पिषः । दर्वी इति । श्रीणीषे । आसनि । उतो इति । नः । उत् । पुपूर्याः । उक्थ्येषु । शवसः । पते । इषम् । स्तोतृ-भ्यः । आ । भर

5.6.10

एव । अग्निम् । अजुर्यमुः । गीः-भिः । यज्ञेभिः । आनुषक् । दधत् । अस्मे इति । सु-वीर्यम् । उत । त्यत् । आशु-अश्व्यम् । इषम् । स्तोतृ-भ्यः । आ । भर

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc