भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.66

5.66.1

॥3॥.
-र्व्_4:4।4-
(र्व्_5,66)
आ । चिकितान । सुक्रतूइतिसु-क्रतू । देवौ । मर्त । रिशादसा । वरुणाय । ऋत-पेशसे । दधीत । प्रयसे महे

5.66.2

ता । हि । क्षत्रम् । अवि-ह्रुतम् । सम्यक् । असुर्यम् । आशातेइति । अध । व्रताइव । मानुषम् । स्वः । न । धायि । दर्शतम्

5.66.3

ता । वाम् । एषे । रथानाम् । उर्वीम् । गव्यूतिम् । एषाम् । रात-हव्यस्य । सु-स्तुतिम् । दधृक् । स्तोमैः । मनामहे

5.66.4

अध । हि । काव्या । युवम् । दक्षस्य । पूः-भिः । अद्भुता । नि । केतुना । जनानाम् । चिकेथेइति । पूत-दक्षसा

5.66.5

तत् । ऋतम् । पृथिवि । बृहत् । श्रवः-एषे । ऋषीणाम् । ज्रयसानौ । अरम् । पृथु । अति । क्षरन्ति । याम-भिः

5.66.6

आ । यत् । वाम् । ईय-चक्षसा । मित्रा । वयम् । च । सूरयः । व्यचिष्ठे । बहु-पाय्ये । यतेमहि । स्व-राज्ये

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc